SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ निवेदना कर्त्तव्या । छिन्नायां त्वस्यां यदन्तराले लब्धं स्वयं स्थापितं स्वगच्छे चाप्रेषितं तदकथयतः प्रायश्चित्तम् । सचित्ते चत्वारो 'गुरुकाः, अचित्त उपधिनिष्पन्नम्, स्वरसेन तदनर्पणे स्नानादिसमवसरणे दृष्टस्य व्यवहारेण दापने मायानिष्पन्नश्च | गुरुको मास इति ॥ ४६ ॥ अथ तत्राभिघारयतो यदाभाव्यं भवति तदाह आभवं पुण तत्थ वि, छम्मीसं चेव होइ वलिदुगं । सेसाण उ वलीणं, परलाभो होइ गाएणं ॥ ४७ ॥ 'आभवं पुण'ति । आभाव्यं पुनस्तत्राप्यभिधारयति, पडू नालबद्धानि मिश्रं चेति वह्निद्विकम् । तत्र माता पिता भ्राता भगिनी पुत्रो दुहिता चेति पडू नालबद्धानि एषाऽनन्तरा वह्निरुच्यते । मातृपित्रोर्माता पिता भ्राता भगिनी च, भ्रात्रादीनां चतुर्णां पुत्रो दुहिता च, तथाष्ट प्रार्यकाणि भ्रातृभगिनीसहितानि, मातामह्या अपि माता पिता भ्राता भगिनी व पिता महस्यापि माता पिता भ्राता भगिनी चेति मिश्रवल्लिरियमुच्यते । शेषाणां तु वल्लीनां नालबद्धमिश्रातिरिक्तानां 'परलाभो भवति' अभिधारितस्य लाभो भवतीत्यर्थः । मातुलसुतादयः परतरवल्लिगता हि यदि प्रतीच्छकमभिधारयन्ति तदा स लभते, अथाऽऽचार्यमभिधारयन्ति तदाऽऽचार्यो लभते । ये च परतरे स्वजना ये चान्ये ते सर्वे आचार्यस्यैवाभवन्तीति ॥ ४६ ॥ एतदेव सविशेषमाह - जइ अभिधारेंति तओ, अभिधारंतस्स नालबद्धाई । चिंधाइविसंवाए, सुयगुरुणो हुंति आभवा ॥ ४८ ॥ 'जइ'त्ति । नालबद्धादयः, आदिना घटितज्ञातिसङ्ग्रहः, घटितज्ञातिर्नाम दृष्टाऽभाषित इत्यर्थः, यदि तं प्रतीच्छक Jain Education International For Private & Personal Use Only: अभिधारयदुपसम्पदि आभाव्योप दर्शनम्. www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy