SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः द्वितीयो - ॥ ९९ ॥ पुनरपि धर्मकथां श्रोतुमिच्छामीति यदि ब्रवीति तदा 'तादर्श' पूर्ववेलायां यादृशमुक्तं तत्तुल्यमेवान्येऽपि यथाक्रमं वदन्ति, उक्तञ्च - "जारिसयं पढमेहिं कहिअं तारिसं सेसेहिं कहेयवं" इति । एवं सर्वैः सदृशतया कथिते यस्योपतिष्ठते तस्याभवति । अथान्ये विशेषतरेण कथयन्ति तर्हि ते न लभन्ते किन्तु यो रत्नाधिकस्तेषां तस्य स आभवतीति ॥ २२० ॥ तत्तो य सलडीए, कहणे आहवइ जेण उवसमिओ | आयरिअदाणकहणे, बहुआ दिजंति इकिका ॥२१॥ ' तत्तो य'ति । यादृशं प्रथमेन कथितं तादृशेऽन्यैरपि कथिते यदि स न प्रव्रज्याभिमुखो भवति ततश्च 'स्वलब्ध्या' स्वशक्तितुलनया सर्वेषां रानिकप्रभृतीनां कथने येनोपशामितस्तस्य स आभवति, कथनं चैत्रं मा सोऽनुपशान्तः सन् संसारं भ्रमस्त्विति कृत्वा । अथ यदि सर्वेषामाचार्याणां यथासद्भावं बहुगुणकथने यं जानीथ यूयमाचार्य तं मम दर्शयतेति तस्याssवार्य दानकथने तदा यदि बहवः शिष्यास्तदाऽऽचार्याणां प्रत्येकमेकैके दीयन्ते ॥ २१ ॥ अथैक एव शिष्यस्तत्र विधिमाह - रायणिए थेरेऽसइ, कुलगणसंघे दुगाइणो भेआ । एमेव वत्थपाए, तालायरसेवगा वणिआ ॥ २२ ॥ 'रायणि 'ति । यद्येक एव शिष्यस्तदा यस्तेषां सर्वेषामपि रात्रिकस्तत्र स समर्पणीयः । अथ सर्वे समरलाधिकास्ततो यस्तेषां 'स्थविर:' वृद्धतरस्तत्र स समर्पणीयः । अथ सर्वे वृद्धास्तदा यस्य शिष्या न सन्ति तत्र देयः । अथ सर्वेषां शिष्याणाम् 'असति' अभावे कुलस्थविरे, अन्यकुलसत्कानामपि तत्र सच्चे गणस्थविरे, अन्यगणसत्कानामपि तत्र Jain Education International For Private & Personal Use Only: गुरुतत्त्वविनिश्चयः ल्लास: ॥ ९९ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy