________________
निजकं दूरमासन्नं वाऽऽदावेव यः कथयति स मासगुरु प्रायश्चित्तं लभते ॥ २१७ ॥ कथं पुनः कथनीयम् ? इत्याह| सवे उद्दिसिअवा, अह पुच्छइ कयरु एत्थ आयरिओ । बहुसुअ तवस्सि पवावगो य तत्थ वि तहा कहणं १८ 'सवे 'ति । सर्वे यथाक्रममुपाश्रया उद्देष्टव्याः, यथा - अमुकस्याचार्यस्योपाश्रयोऽमुकप्रदेशेऽमुकस्य चामुकप्रदेश इति । अथ स पृच्छेत् — कतरोऽत्राचार्यो बहुश्रुतस्तपस्वी वा प्रत्राजको वा ? ' तत्रापि' तस्यामपि पृच्छायां तथा कथनं कर्त्तव्यम्, अन्यथा कथने मासगुरु ॥ १८ ॥
|सबेसि बहुगुणत्ते, कहिए जो जस्स पासमब्भेइ । सो तस्स होइ सिट्ठे, चउरो किव्हा विसेसम्मि ॥ १९ ॥
‘सबेसि’त्ति । सर्वेषामाचार्याणां यथासद्भावं बहुगुणत्वे सर्वे बहुश्रुताः सर्वे प्रब्राजकाः सर्वे चाचार्याः प्रधानतरा इत्येवं कथिते यो यस्य पार्श्वमभ्येति स तस्याभवति । आत्मीयानां बहुतरगुणोत्कीर्त्तनेनान्येषां च बहुतरनिन्दनेन रागद्वेषाकुलतया विशेषे तु शिष्टे विशेषकथकस्य प्रायश्चित्तं चत्वारो मासाः 'कृत्स्नाः ' परिपूर्णा गुरुका इत्यर्थः ॥ १९ ॥ धम्मं सोउं इच्छइ, जइ सो तो तं कहेइ धम्मकही। रायणिओ बहुसु तओ, अपणे वि कहंति तारिसयं २०
''ति । अथ स धर्म श्रोतुमिच्छति, वदति च सर्वेषां मिलितानां समक्षं युष्माकं पार्श्वे धर्म तावदहं श्रोतुमिच्छामि ततो रुचिते धर्मे प्रत्रजिष्यामीति, तदा तं धर्मे कथयति 'धर्मकथी' धर्मक्रथालब्धिसंपन्नस्तावदादौ । अथान्येऽपि द्वित्रिप्रभृतयो लब्धितः समानास्तत्र सन्ति तदा बहुषु धर्मकथिषु सत्सु 'ततः' तदनन्तरं 'रात्निकः' रत्नाधिकः कथयति । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org