SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ स्वोपनव अत्था वि हुंति एवं, बलिआ मुत्तूण णवरि छेयत्थं । मीसे वि गमो एसो, बलिअंपुवाओ पुवगयं ॥११ त्तियुतः | 'अत्था वित्ति अर्था अपि 'एवं' सूत्रोक्तक्रमेणैव बलिकाः, तथाहि-एक एकस्य पार्श्वे आवश्यकार्थमधीते, आवश्य-विनिश्चयः द्वितीयो-दकार्थवाचनाचार्यः पुनरावश्यकार्थप्रतिपृच्छकस्य समीपे दशवकालिकार्थमधीते दशवैकालिकार्थवाचनाचार्यस्याभाव्यंलासः सतत् क्षेत्रम् , एवं तावद्वाच्यं यावदष्टाशीतिसूत्रार्थः । नवरं छेदसूत्रार्थ मुक्त्वाऽर्थाचार्याणामुपरि खलु छेदसूत्रार्थाचार्यों ही वक्तव्यः, तथाहि-एक एकस्य पार्श्वे दृष्टिवादगतानामष्टाशीतिसूत्राणामर्थमधीते, अष्टाशीतिसूत्रार्थवाचनाचार्यः पुनरष्टाशीतिसूत्रार्थप्रतीच्छकस्य पार्श्वे छेद सूत्रार्थमधीते छेदसुत्रार्थवाचनाचार्यस्याभाव्यं तत् क्षेत्रम् । 'मिश्रेऽपि' सूत्रार्थोभयरूपे एष एव 'गमः' प्रकारः पूर्वगतं पूर्वस्माद्वलिकम् । अत्र पूर्वशब्देन अर्थ उच्यते, भगवता उक्तत्वेन सूत्रापेक्षया तस्य पूर्वत्वात् , स च प्रकरणादष्टाशीतिसूत्रार्थपर्यन्तो गृह्यते, तावत्पर्यन्तो हि सूत्रादर्थो बलीयान् । एक एकस्य पार्श्वे आवश्यक सूत्रमधीते तस्य समीपे पुनः सूत्रवाचनाचार्य आवश्यकार्थमधीते आवश्यकार्थवाचनाचार्यस्याभवति, एवं तावद्भावनीयं यावदष्टाशीतिसूत्रार्थवाचनाचार्य इति । तावत्पर्यन्ताच्चार्थात्पूर्वगतं वलीयः, तावत्पर्यन्तात्सूत्रात्तु सुतरां तद् बलीय इति द्रष्टव्यम् । तथाहि-एक एकस्य पार्श्वे आवश्यकस्य सूत्रमर्थं तदुभयं वाऽधीते तस्य समीपे पुनरावश्यकसूत्रार्थतदुभयवाचनाचार्यः पूर्वगतं सूत्रमधीते पूर्वगत सूत्रवाचनाचार्यस्याभवति, एवं तावद्वाच्यं यावदटाशीतिसूत्राणि । पूर्वगतसूत्राच्च पूर्वगतार्थो बलीयानिति ॥ ११ ॥ अथ कुतो हेतोः शेषात् सूत्रादर्थाच्च पूर्वगतं सूत्रं बलीयः ? इत्याशङ्कायामाह ROCCCCROCOM ॥९ ॥ Jain Educat For Private & Personal use only library.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy