________________
हाशीतिसूत्राणीति । इयान् परमिह विशेषः-मण्डलिका तावदावलिकावदेव, सा हि पूर्वाधीते नष्टे उज्वाल्यमाने धर्मकथावादशास्त्रेषूज्वाल्यमानेष्वधीयमानेषु वा प्रकीणकश्रुते वाऽधीयमाने बहुश्रुतस्यापि भवति, तथाहि-एक एकस्य पार्श्वे पूर्वाधीतं नष्टमावश्यकमुज्ज्यालयति, आवश्यकवाचनाचार्यः पुनस्तत्समीपे दशवैकालिकं दशवकालिकवाचनाचार्यस्याभवतीत्यादि सर्व प्राग्वदेव । तथा एक एकस्य पार्श्वे आवश्यकं नष्टमुज्ज्वालयति, एवोऽप्यावश्यकवाचनाचार्योऽन्यस्य समीपे दशवकालिकम, दशवैकालिकवाचनाचार्योऽप्यपरस्य समीपे उत्तराध्ययनानि, उत्तराध्ययनवाचनाचार्योऽप्यन्यस्य समीपे आचाराङ्गम् , एवं यावद्विपाकश्रुतवाचनाचार्यः पूर्वाधीतं नष्टमन्यस्य पार्श्वे दृष्टिवादमुज्वालयति दृष्टिवादवाचनाचार्यस्याभवति, न शेषाणाम्, आभवनस्योत्तरोत्तरसङ्क्रान्त्याऽन्तिमेऽवस्थानात् । एतच्चावलिकायामपि द्रष्टव्यम् , न चैवं छिन्नाछिन्नविशेषानुपपत्तिः,व्याख्यातुरन्याभिधारणानभिधारणाभ्यां तदुपपत्तेः; इदं च छिन्नाछिन्नोपसम्पदभिप्रायेणोच्यते । अथवा छिन्नत्वं सार्वत्रिकमेकान्तनिवेशेनैव, तेन नावलिकायां परस्परमाभाव्यविशेषस्य तन्त्रोक्तस्यानुपपत्ति-18 रिति सम्यगालोचनीयम् । तथा यस्य पार्श्वे धर्मकथाशास्त्राणि वादशास्त्राणि वोज्ज्वालयत्यधीते वा तस्य पाठकस्याभवति न पाठ्यमानस्य । तथा बहुश्रुततरोऽपि यद्यन्यस्य समीपे प्रकीर्णश्रुतमधीते तदा तस्य प्रकीर्णकश्रुतपाठकस्याभाव्यं न बहुश्रुततरस्य । किंबहुना यो यस्य समीपे पठत्युज्ज्यालयति वा तस्य सत्कमाभाव्यमितरो वाचनाचार्यों हरति । तथा घोटककण्ड्यनेन परस्परं पृच्छायां यो यदा यं पृच्छति स तदा तस्य प्रतीच्छ का, इतरः प्रतीच्छयः, यावच्च यः प्रतीच्छयस्तावत्तस्याभवतीति ॥२१॥
शुरुत. १७
Jain Educationindy
For Private
Personal Use Only