________________
स्वोपज्ञवृत्तियुतः द्वितीयो -
॥ ९५ ॥
Jain Educat
'कायवो 'ति । यतोऽविधिकथने दोषः 'तेन' कारणेनोपाश्रयाणां यथाक्रममुद्देशः कर्त्तव्योऽमुकप्रदेशेऽमुकस्योपाश्रय इति । एवं कथिते हि यत्र स व्रजति तस्य स आभवति। संविग्नबहुश्रुतानामपि पृच्छायां यथेच्छमाभवति । अयं भावःकेऽत्र संविग्ना बहुश्रुता वा ? इति पृष्टे वितथाख्याने मासलघु, न च स तं लभते किन्तु ये तपस्वितरा बहुश्रुततराश्च तेषां स भवति । अथ सर्वेऽर्द्धा वा संविग्नास्ततोऽसंविग्नान् पार्श्वस्थादीन् मुक्त्वा तेषां तथैवाख्याने यस्य पार्श्व व्रजति तस्यैवाभवतीति ॥ ३॥
गुरुतत्त्वविनिश्चयः
लासः
गामंतरे वि पुढे, अवितहकहणम्मि जं समब्भेइ । सो लहइ तं ण अण्णो, मायाणियडिप्पहाणो उ ॥ ४ ॥
'गामंतरे वि'ति । इह हि कोऽपि तस्मिन् ग्रामे नगरे देशे राज्ये वा न प्रव्रजति मा निजका उत्प्रवाजयेयुः प्रव्रजति वा मा रुदनं कुर्युरिति, यदि वा तेषां निजकानां समक्षं लज्जते । अथवाऽप्कायादिप्रचुरत्वाद संयमाधिकरणं तद् ग्रामादिकमिति ग्रामान्तरेऽपि पृष्टेऽवितथकथने यद् यथा ग्रामादिकं पृष्टं तस्य तथा दूरासन्नादिभेदेन कथने यं समभ्येति स तं लभते । वितथाख्याने तु मासलघु, न चान्यस्तं लभते । किम्भूतः ? माया -परवञ्चनाभिप्रायो निकृतिः - आकारवचनाच्छादनं ते प्रधाने यस्य स तथा, तत्र ग्रामे चैत्यादीनि सन्तीत्यादिवचनैर्विपरिणामव्यापृत इति यावत् ॥ ४ ॥ वासासुं अमणुण्णा, हुंति ठिया जे उ वीसुमसमत्ता । ते णो लहंति खित्तं, लहंति समणुण्णया हुंता ॥ ५ ॥ ६ ॥ ९५ ॥ 'वासासुं'ति । 'वर्षासु' वर्षाकाले ये 'अमनोज्ञाः' परस्परोपसम्पद्विकलाः सप्तभ्यो हीनतयाऽसमाप्ताः, ये तु विष्वक्
For Private & Personal Use Only)
elibrary.org