SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ SAMACROSSALSALASSROO च्छेदेन वस्तव्यम् ॥ १९० ॥ तत्र वृषभक्षेत्रं द्विविधम्-ऋतुबद्धे वर्षाकाले च । एकैकं त्रिविधम्-जघन्य मध्यममुत्कृष्टं च । तत्रर्तुबद्धे जघन्यमाह जत्थ खलु तिण्णि गच्छा, पण्णरसुभया जणापरिवसंति। एयं वसभक्खेत्तं, तविवरीअं भवे इयरं ॥९१॥3 8] 'जत्थ खलु'त्ति। यत्र खलु 'उभये जनाः' आचार्यो गणावच्छेदकश्च। तत्राचार्य आत्मद्वितीयो गणावच्छेदकश्चात्मतृतीय इति सर्वसङ्ख्यया पञ्चदश जनास्त्रयो गच्छाः परिवसन्ति, एतद्वषभक्षेत्रमृतुबद्धे जघन्यम् । तद्विपरीतं यत्र तादृशाः पञ्चदश जना न संस्तरन्ति तद्भवति 'इतरत्न वृषभक्षेत्रमित्यर्थः ॥९१॥ बत्तीसं च सहस्सा, चिट्ठति सुहंजहिं तमुक्किएं । उउबद्धम्मि जहण्णे, तिषिण य वासासु सत्त गणा ॥९२॥3 | 'बत्तीसं चत्ति । द्वात्रिंशच्च सहस्राणि यत्र सुखेन तिष्ठन्ति, यथा वृषभस्वामिकाले ऋषभसेनगणधरस्य तत्क्षेत्रमृतुबद्धे काले उत्कृष्टम् । मध्यमं तु जघन्योत्कृष्टयोर्मध्य इति द्रष्टव्यम् । तथा वर्षासु जघन्ये वृषभक्षेत्रे त्रयः सप्तगणास्तिष्ठन्ति, इदमुक्तं भवति-यत्राचार्य आत्मतृतीयो गणावच्छेदी त्वात्मचतुर्थः सर्वसङ्ख्यया सप्त, एवंप्रमाणास्त्रयो गच्छा एकविंशतिजना यत्र संस्तरन्ति एतजघन्यं वर्षाकालप्रायोग्यं वृषभक्षेत्रम् । उत्कृष्टं मध्यमं च यथा ऋतुबद्धकाले तथैव द्रष्टव्यमिति ॥ ९२ ॥ ईदृशेषु बहुगच्छोपग्रहकरेषु वृषभग्रामेषु सत्सु यदि वा एतेष्वेव साधारणेषु क्षेत्रेषु न परस्परं भण्डनं कर्त्तव्यं सचित्तादिनिमित्तम् , किन्तु सीमाछेदेन वस्तव्यमिति । तमेवाह Main Education international For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy