SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः द्वितीयो ॥ ९० ॥ 1 ‘पच्छ’'त्ति । पश्चाद्विनिर्गताः खलु पश्चात्प्राप्ताश्च पूर्वप्रविष्टैः सह समानुज्ञापनायां समभागिनो भवन्ति । पूर्वप्रविष्टापेक्षया पूर्वानुज्ञापनायां तु तेषां पश्चाद्विनिर्गतपश्चात्प्राप्तानां क्षेत्रं भवेत् ॥ ७८ ॥ सीमाइसु पत्ताणं, दोह वि पुवं अणुणवइ जो उ । सो होइ खेत्तसामी, णो पुण दप्पेण जो ठाइ ॥७९॥ ‘सीमाइसु’त्ति । सीमादिषु, आदिनोद्यानग्रामद्वारव सत्यादिपरिग्रहः, प्राप्तयोर्द्वयोरपि वर्गयोः पूर्वमनुज्ञापयति स भवति क्षेत्रस्वामी न पुनर्दर्पेण निष्कारणमेव योऽननुज्ञापयन् तिष्ठति ॥ ७९ ॥ समगं पत्ता साधारणं तु खित्तं लहंति जे वग्गा । अच्छंति संथरं ते, असंथरे ठंति जयणा ॥ १८० ॥ 'सम'ति । समकं प्राप्ता ये वर्गाः साधारणं तु क्षेत्रं लभन्ते ते संस्तरे सति सर्वेऽप्येकत्रावतिष्ठन्ते । असंस्तरे तु यतनया तिष्ठन्ति । सा चेयम् - यदि द्वौ वर्गों वृषभाचार्ययोरेकत्र न संस्तरतस्तदा वृषभो निर्गच्छत्याचार्यस्तिष्ठति । अथ द्वाविपि वर्गों तुल्यौ गणिनावाचार्यों वा तदा यस्यानिष्पन्नः परिवारः स तिष्ठत्यन्यो गच्छति । द्वयोरपि निष्पन्न परिवारत्वे वृद्धपरिवारस्तिष्ठत्यन्यो गच्छति । द्वयोरपि समवयस्क परिवारत्वे शैक्ष परिवारस्तिष्ठति चिरप्रत्र जितशिष्यस्तु गच्छति । द्वयोरपि समपर्याय शिष्यत्वे जुङ्गितपादाक्षिनाशाकर कर्णास्तिष्ठन्त्यन्ये गच्छन्ति । संयतीष्वप्येषैव यतना । केवलं तरुण्यस्तिष्ठन्ति वृद्धा गच्छन्तीति विशेषः । श्रमणानां श्रमणीनां चैकत्रासंस्तरणे श्रमण्यस्तिष्ठन्ति श्रमणा निर्गच्छन्ति । यत्र च संयता जुङ्गिताः श्रमण्यश्च वृद्धास्तत्र जुङ्गितास्तिष्ठन्ति वृद्धाः श्रमण्यो निर्गच्छन्तीत्याद्यल्पबहुत्वं परिभावनीयम् ॥ १८० ॥ Jain Education International For Private & Personal Use Only: गुरुतत्त्वविनिश्चयः लासः ॥ ९० ॥ lelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy