________________
सस्था
9AMESSAURUSSCROSAROKAR
पत्ताण अणुन्नवणा, सारूवियसिद्धपुत्तमाईणं । बाहिं ठिआण जयणा, जा आसाढे सिआ दसमी ८१॥ है 'पत्ताण'त्ति । प्राप्तानां क्षेत्रं वर्षारात्रप्रायोग्यमनुज्ञापना भवति कर्त्तव्या सारूपिकसिद्धपुत्रादीनाम् , आदिना सजि
भोजिकमहत्तरनापितग्रहः । तत्र सारूपिक एकनिषद्योपेतरजोहरणदण्डकधारी शिरोमुण्डः सारूपिकः, अशिखः सशिखो वा पश्चात्कृतो गृहस्थः सिद्धपुत्रः, सज्ञिनो गृहीताणुव्रतदर्शनाः श्रावकाः, भोजिकः-ग्रामस्वामी, महत्तराः-ग्रामप्रधानपुरुषाः, नापिताः-नखशोधकाः । स्वग्रामे सञ्ज्यभावे च द्वे गव्यूते गत्वाऽपि निवेदनं कर्त्तव्यम्-अस्माकं रुचितमिदं क्षेत्रमित्यन्येषामपि ज्ञापनीयमिति । ततो बहिःस्थितानां यतना कर्तव्या यावदापाढे सिता दशमी । सा हि वर्षाव नम् । ततोऽर्वाग् बहिःस्थिता वर्षायोग्यमुपधिमुत्पादयन्ति प्रत्येकं सङ्घाटकाः प्रत्यासन्नासु दिक्षु, परिपूर्णमात्मन एकस्य 2 च जनस्याधिकमुत्पादयन्ति, संस्तरे प्रतिवृषभग्रामानन्तरपल्लीं च वर्जयन्ति, उच्चारमात्रकादिकमपि गृह्णन्तीति । एवं बहिर्यतमाना आषाढशुद्धदशम्यां वर्षायोग्यं क्षेत्रमागच्छन्ति ॥ ८१ ॥ संविग्गबहुलकाले, एसा मेरा पुरा य आसी । इयरबहुले उ संपइ, पविसंति अणागयं चेव ॥८२॥ साम्प्रतका
'संविग्गत्ति । एषा मर्यादा पुरा संविग्नबहुले काले आसीत् । सम्प्रति 'इतरबहुले' पार्श्वस्थादिबहुलेऽनागतमेव प्रवि- लीनाक्षेत्राशन्ति । आयतार्थिनो ह्यन्यप्रेक्षिते क्षेत्रे न प्रविशन्ति । पार्श्वस्थादयस्तु कालमासाद्य परिवृद्धाः पूर्वप्रत्युपेक्षितक्षेत्रानपि भवन्मर्यादा प्रेरयेयुरिति ॥ ८२ ॥ तथा चाह
गुरुत. १६
Jain Education International
For Private & Personal Use Only
Clinelibrary.org