SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ एव भावव्यवहारित्वविश्रामप्रसङ्गादिति ॥ ६३ ॥ नन्वेवं भावव्यवहारित्वेन साधुसंविग्नपाक्षिकयोः समकक्षत्वात्कथमुत्सर्गतः साधोरेव व्यवहारार्थमाश्रयणम् ? अत आह— विवहारस्स पयाणं, सुत्तग्गहणं च चरणकिरियाए । उस्सग्गओ त्ति तेणं, साहू ववहारिणो भावे ॥६४॥ ‘ववहारस्त’त्ति । ‘व्यवहारस्य' प्रायश्चित्तादिलक्षणस्य ' प्रदानं साधुकृतिकर्मादिप्रतीच्छनघटितं व्यवहारज्ञानोपयुक्तम्, सूत्रग्रहणं च योगवहनाद्याचारमूलक मुत्सर्गतश्चरणक्रिययैव तस्या एव पञ्चाचाररूपत्वादितिहेतोः, 'तेन' उत्सर्गेण साधवो भावे व्यवहारिणः, फलतो हेतुतश्च व्यवहारस्य साधुभावे पर्यवसानात् । अपवादतस्तु संविग्नपाक्षिकोऽपीदृश एव । न चोत्सर्गापवादयोर्यथायोगं फले बहु वैपम्यमिति भावनीयं सुधीभिः ॥ ६४ ॥ व्यवहारिप्ररूपणा सिद्धतां प्ररूपयन् व्यवहर्त्तव्यप्ररूपणां प्रतिजानीते एवं सुअवएसा, ववहारिपरूवणा कया लेसा । ववहरिअश्वपरूवणमित्तो अकमागयं बुच्छं ॥ ६५ ॥ ' एवं ' इति । एवं श्रुतोपदेशात् एषा व्यवहारिप्ररूपणा लेशात्कृता । इतश्च क्रमागतां व्यवहर्त्तव्यप्ररूपणां वक्ष्ये ॥६५॥ तत्र व्यवहर्त्तव्या अपि नामस्थापनाद्रव्य भावभेदाच्चतुर्द्धा । तत्र नामस्थापने प्रतीते । द्रव्यव्यवहर्त्तव्या अध्यागमतो नोआगततोऽपि ज्ञशरीरभव्यशरीररूपाः प्रतीता एव । तद्व्यतिरिक्का अपि लौकिक लोकोत्तरभेदेन द्विधा । भावव्यव हर्त्तव्या अपि लौकिक लोकोत्तरभेदेन नोआगमतो द्विधैवेति । तत्र लौकिकानेव द्रव्यतो भावतश्चाह Jain Education International For Private & Personal Use Only: 2054 & व्यवहारि प्ररूपणोपसं हार: व्यवहर्त्तव्यप्ररूपणाप्रतिज्ञा 'व्यवहर्त्त व्य' पदनिक्षे पणम् www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy