SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः द्वितीयो - ॥ ८५ ॥ | दशिका लाटेन गणिताः । ततो नगरप्राप्तौ महाराष्ट्रकेण प्रावारो ग्रहीतुमारब्धः । लाटो ब्रूते किं मदीयं प्रावारं गृह्णासि ?, एवं तयोः परस्परं विवादो जातः । महाराष्ट्रकेण लाटो राजकुले कर्षितः । विवादे लाटोऽवादीत्-पृच्छत महाराष्ट्रकं यदि तव प्रावारस्तर्हि कथय कियत्योऽस्य दशाः सन्ति ? | महाराष्ट्रकेण न कथितास्तेन च लाटकेन कथिता इति महाराष्ट्रिको जितः । ततो राजकुलादपसृत्य लाटेन महाराष्ट्रकमा कार्य प्रावारं च तस्मै दत्त्वोक्तं यत्त्वया पृष्टं कीदृशा लाटा गुण्ठा भवन्ति? इति, तत्रेदृशा लाटा गुण्ठा इति जानीहीति । एवमादिकाभिर्गुण्ठाभिर्मोहयित्वा यो व्यवहारं हरति स गुण्ठसमान इति ७ ॥ ५३ ॥ अम्लमाह सो अंबिलो ण जस्स उ, फरुसाइ गिराइ कज्जसंसिद्धी । एए अट्ठ वि तइआ, णिद्धम्मा आसि कालम् ॥ जेहिं कया ववहारा, ण हु मण्णिज्जंति अण्णरजेसु । अट्ठवि अकज्जकारी, दुववहारी इमे आसी ॥ ५५ ॥ 'सो अंबिलो 'ति । यस्य तु परुपया गिरा ययोक्तया शरीरं चिडचिडायते कार्यस्य - व्यवहारस्य संसिद्धिर्न भवति सोऽम्लवचनयोगादम्ल इति ८ । अष्टाप्येते 'तदा' तस्मिन् काले निर्द्धर्माण आसीरन् ॥ ५४ ॥ 'जेहिं 'ति । यैः कृता व्यवहाराः 'न हु' नैव मन्यन्तेऽन्यराज्येषु । अष्टाप्यकार्यकारिणो दुर्व्यवहारिण इमे आसीरन् तगरायां नगर्याम् ॥ ५५ ॥ तादृशानां दुर्व्यवहारिणामिहलो के परलोके च फलमाहइहलोअम्मि अकित्ती, परलोए दुग्गई धुवा तेसिं । तित्थयराणाणाए, जे वबहारं ववहति ॥ ५६ ॥ For Private & Personal Use Only) Jain Education International गुरुतत्त्वविनिश्चयः लासः ।। ८५ ।। www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy