________________
गुरुत. १५
सोवाहणेण पाएण पडिहओ त्ति य कउत्तरु व णरो। गीयत्थोवालद्धो, छलग्गही उत्तरो भणिओ ॥ ५१ ॥
'सोवाहणे 'ति । सोपानहा पादेन प्रतिहत इति कृतोत्तरो नर इव गीतोपालब्धः सन् छलग्राही उत्तरो भणितः । इयमत्र भावना - केनापि कश्चित्सोपानहा पादेनापहतस्तेन च गत्वा राजकुले निवेदितम्, कारणिकैश्च स आकारितः पृष्टश्च किं त्वयैष आहतः ? इति स प्राह-न मयैष आहतः किन्तु सोपानहा पादेन एवं दुर्व्यवहारं कुर्वन् गीतार्थेनोपालब्धः सन्नेतादृशैश्छल वचनैरुत्तरं ददाति स खल्वसदुत्तरकरणादुत्तर इति ४ ॥ ५१ ॥ चार्वाकमाह - वसभेण वसभसागारियस्स विरसस्स चवणे व रसो। जस्स ण विहलत्थस्स उ, सो चढाओ समक्खाओ ॥ 'वसभेण'त्ति । वृषभेण विरसस्यापरवृषभसागारिकस्य चर्वण इव यस्य न 'विफलार्थस्य' निष्फलं चर्वयतः कार्ये रोमन्धायमाणस्य रसः स चार्वाकः समाख्यातः ५ ॥ ५२ ॥ बधिरगुण्ठसमानावाह
कहिए कहिए कज्जे, बहिरो ण सुअं मए त्ति भासतो । गुंठसमाणो मरहट्टमोहकरलाडमाइलो ॥ ५३ ॥
'कहिए'त्ति । कथिते कथिते कार्ये न श्रुतं मयेति भाषमाणो बधिरः ६ । गुण्ठतमानश्च महाराष्ट्रस्य मोहकरो व्यवहारापहारकारिभ्रमोत्पादको यो लाटस्तद्वन्माथिल्लः - मायावान् । तथाहि एको लाटो गन्या किमपि नगरं व्रजति । अन्तराले च महाराष्ट्रको मिलितस्तेन लाटः पृष्टः- कीदृशाः खलु लाटा गुण्ठा भवन्ति ? इति मायाविनो भवन्तीत्यर्थः, स प्राह-पश्चात्कथयिष्यामि । मार्गे च गच्छतः शीतवेलो (लाड) पगता, ततो नष्टे शीते महाराष्ट्रकेण प्रावारो गव्यां क्षिप्तः । तस्य च प्रावारस्य
Jain Education International
For Private & Personal Use Only)
ary.org