SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः द्वितीयो - ॥ ८४ ॥ 'तगराए'त्ति । तगरायां नगर्यामेकस्याचार्यस्य पार्श्वे षोडश शिष्या निष्पन्नास्तेषां मध्ये इमेऽष्टाऽव्यवहारिणः ॥ ४७ ॥ कंकडुए कुणिमे तह, पैक्के वि य उत्तरे अ चैवाए । बहिरे गुंठसमाणे, अट्ठमए अंबिले होइ ॥ ४८ ॥ 'कंकडुए 'ति । कङ्कटुकः १ कुणपः २ पक्कः ३ उत्तर ४ श्चार्वाकः ५ बधिरः ६ 'गुण्ठसमानः' लाटमायाविसमानः ७ अष्टमकश्च 'अम्लः' अम्लसमानो भवति ॥ ४८ ॥ कङ्कटुकं कुणपं च विवेचयति कंकडुओ सो जस्स उ, सिद्धिं ण उवेइ जाउ ववहारो । कुणिमो जो न विसुज्झति, दुच्छिज्जो जस्स ववहारो 'कंकडुओ सो’त्ति । यस्य व्यवहारः 'जातु' कदाचित्सिद्धिं नोपयाति कङ्कटुकभाष इत्र गौण्या वृत्त्या कङ्कटुकः प्रसिद्धः १ । यस्य व्यवहारो दुश्छेद्योऽत एवं यो व्यवहारं छिन्दन्न शुध्यति कुणपनखावयववत् स कुणपनखावयव तुल्यव्यवहार करणयोगात्कुणपः २ ॥ ४९ ॥ पक्वमाह - पक्को पडणा पागागमणा वा हंदि पक्कफलसरिसो । पक्कुल्लावभया वा, जस्स ण कज्जं परे दिति ॥ १५० ॥ 'पक्को'ति । यस्य व्यवहारः फलमिव पक्कं पतति न पुनः स्थिरोऽवतिष्ठते । अथवा यस्य व्यवहारः पक्कयोगात्पाकं न गच्छति स तादृशव्यवहारद्वारा पतनात्पाकागमनाद्वा हन्दीत्युपदर्शने पक्कफलसदृशः सन् पक्व इति ख्यातः । प्रकारान्तरमाह- 'वा' अथवा पक्का ये उल्लापा यैर्भाषिताः सन्तोऽन्ये सद्वादिनस्तूष्णीमासते तेभ्यो यद्भयं तस्माद्यस्य कार्य 'परे' शेषका: 'न ददति' नोदीरयन्ति स पक्कः ३ ॥ १५० ॥ उत्तरमाह Jain Education International For Private & Personal Use Only गुरुतत्त्व. विनिश्चयः ल्लासः अष्टावप्रश स्ता व्यव हारिणः ॥ ८४ ॥ ainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy