SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ROSCALAMAUSAMROSAL 'मुग्धानां' गुणानालोचनपूर्वकविश्वासवता 'धन्धणं' ध्यान्धीकरणमेतत् ॥ १५ ॥ ओसन्नचरणकरणे, सच्चत्ववहारिया दुसद्दहिया । चरणकरणं जहंतो, सच्चत्ववहारियं पि जहे ॥ १६ ॥ | 'ओसन्नत्ति । अवसन्ने-शिथिलतां गते चरणकरणे-व्रतश्रमणधर्मपिण्ड विशुद्धिसमित्यादिरूपे यस्य तस्मिन् है व्यवहारिता' यथास्थितव्यवहारकारिता दुःश्रद्धेया, यतश्चरणकरणं जहत् सत्यव्यवहारितामपि जहाति ॥ ११६ ॥ जइआणेणं चत्तं, अप्पणओ नाणदंसणचरित्तं । तइआ तस्स परेसुं, अणुकंपा णत्थि जीवेसु ॥ १७॥ HI 'जइत्ति।यदाऽनेनाऽऽत्मनः सम्बन्धि ज्ञानदर्शनचारित्रं त्यक्तं तदा तस्य परेषु जीवेष्वनुकम्पा नास्ति । यस्य ह्यात्मनो दुर्गतौ प्रपततो नाऽनुकम्पा तस्य कथं परेष्वनुकम्पा भवेत् ? न कथश्चित् स्यात्, स्वानुकम्पार्थप्रवृत्त्यनुषङ्गलभ्यत्वात्परानुकम्पाया इति भावः ॥ १७॥ भवसयसहस्सलद्धं, जिणवयणं भावओ जहंतस्स। जस्स ण जायं दुक्खं, तस्स ण दुक्खं परे दुहिए॥१८॥ __ 'भव'त्ति । यस्य भवशतसहस्रः कथमपि लब्धं जिनवचनं 'भावतः' परमार्थतो जहतो दुःखं न जातं तस्य परस्मिन् दुःखिते कथं दुःखम् ? न कथञ्चित् , आत्मदुःखे दुःखितस्यैव परदुःखे दुःखितत्वसम्भवादिति भावः ॥ १८॥ संसारविरत्तस्स उ, आणाभंगे महब्भय होइ । गारवरसिअस्स पुणो, जिणआणाभंजणं कीला ॥ १९ ॥ 'संसार'त्ति । 'संसारविरक्तस्य तु' संसारविरक्तस्यैव तोरेवकारार्थत्वात् , आज्ञाभङ्गे महद्भयं भवति । गारवरसिकस्य । ANS-SCREUSAGENCOCALSOCIOS Jain Education International For Private & Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy