SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ACC-SACC कार्यविषयाः करणकारणानुमोदनादोषाः । न पुनरध्यापकवैयावृत्त्यादौ कार्येऽनुमोदने कारणे च शिक्षा मयाऽस्य समीपे गृह्यते 'इति पदे' द्वितीयपदेऽपवादलक्षणे दुष्टः ॥ ८२ ॥ किं कुर्वन् ? इत्याहअलसे वा परिवारे, तयभावे सिद्धपुत्तमाईणं । अबुच्छित्तिकरस्स उ, भत्तिं कुणह त्ति जपंतो ॥ ८३ ॥ | 'अलसे'त्ति । यदि स पाठयन्नात्मनैवाहारोपध्यादिकमुत्पादयति तदा सुन्दरम् , अन्यथा 'अलसे' औचित्येन तत्कार्यम-18 कुर्वति परिवारे वा सति तस्य 'तदभावे' तदीयपरिवारस्यैवाभावे सिद्धपुत्रादीनाम् , आदिना पुराणश्राद्धादिपरिग्रहः, 'अव्यवच्छित्तिकरस्य' श्रुताविच्छेदकरस्य महतो ज्ञानपात्रस्य कुरुतास्य भक्तिम्' उत्कृष्टाहारसम्पादनादिरूपामिति जल्पन् ॥८३॥ दुविहासईइ तेसिं, आहाराई करेइ सो सवं । पणहाणीइ जयंतो, हुज्जा अत्तटमवि एवं ॥ ८४ ॥ | 'दुविहासईइत्ति । द्विविधस्य प्रतिचारकस्य-परिवारस्य सिद्धपुत्रादेश्चासत्यभावे 'तेषां' पार्श्वस्थपश्चात्कृतादीनां सः18 'सर्वम् आहारादिकमात्मना करोति । किं कुर्वाणः ? इत्याह-'पञ्चकहान्या यतमानः' प्रथमतो हि शुद्धमुत्पादयति, तद लाभे पञ्चकप्रायश्चित्तयोग्यम् , तदलाभे दशकयोग्यं यावच्चतुर्गुरुकमसंप्राप्तः। एवं यतमान आत्मार्थमप्येवं भवेत्-उद्गमा-1 दिदिदोषत्रयशुद्धमलभमानः पञ्चकादियतनया त्रिभिरपि दोषैरशुद्धं गृह्णीयात्तथाऽपि स शुद्ध एव ज्ञाननिमित्तं प्रवृत्तत्वात् ॥८४ ॥ तथा चाहएसो य पुरिसकारो, तस्स तया णेव दोसमन्भेइ । जयणाविसयत्तणओ, रागदोसाण विरहा य॥८५॥ torte -SCREENSESS For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy