________________
ROMAMROCESSOCIRRECOGNESCk
पदे उपाध्यायपदे वा 'समुच्छेदकल्पकार्येऽपि' आचार्ये कालगते गच्छधरणकार्येऽप्युपस्थिते 'नो अन्यथा' यदि सोडध्येय इति प्रतिजानानोऽपि नाधीयेतेति संभाव्यते तदा न स्थापनीय इति 'मेरा' सूत्रमर्यादा, तथा च सूत्र व्यवहारतृतीयोद्देशकस्थम् -"णिरुद्धवासपरिआए समणे णिग्गंथे कप्पति आयरियउवज्झायत्ताए उद्दिसित्तए समुच्छेयकप्पंसि, तत्थ णं आयारपकप्पस्स देसे अहिज्जिए भवति देसे णो अहिजिस्सामीति अहि जिजा, एवं से कप्पइ आयरियउवज्झायत्तं उद्दिसित्तए"त्ति गतार्थमेतत् । अत्र लक्षणयुक्तस्य ग्रहणं लोके वेदे समये च लक्षणयुक्त एव नायकः स्थापनीय | इति हेतोः राज्य इव राजकुमरेण गणधरपदे स्थापितेन लक्षणयुक्तेन गच्छविवृद्धिसिद्धेः, तदुक्तम्-"किं अम्ह लक्ख-13 जेहिं तवसंजमसुद्विआण समणाणं । गच्छविवडिणि मित्तं, इच्छिजइ सो जहा कुमरो ॥१॥"त्ति । तथा च लक्षण युक्ततागुणेन यद्यसमाप्तश्रुतोऽपि पदे स्थापनीयस्तदापि पश्चात्तेन श्रुताध्ययनं कर्त्तव्यमिति श्रुतार्थपरिज्ञानगुणस्य प्राधान्यम्।। कथं पश्चात्तेनाध्ययनं कर्त्तव्यम् ? इत्याह-गृह्णाति पश्चात् सदेशं त्ववशिष्टमाचार्यपदोपविष्टः सन् ॥ ७७ ॥ ७८ ॥ सगणे अणरिहगीयंतियम्मि पुविं तओ अअण्णत्थ। संभोइआण पासे, तओ असंभोइआणं पि ॥ ७९ ॥3 पासत्थाणं संविग्गपक्खिआणं तओ सउज्जोअं । तत्तोऽसंविग्गाणं, पासे सारूविआईणं ॥ ८॥ । 'सगणे'त्ति । 'पूर्व प्रथमतः स्वगणेऽनर्हाणाम्-आचार्यपदायोग्यानां गीतार्थानामन्तिके । अथ स्वगणे गीतार्था न विद्यन्ते ततः 'अन्यत्र' परगणे साम्भोगिकानां पार्थे, परगणे साम्भोगिकानामध्यभावे ततश्चासाम्भोगिकानामपि पार्श्व
गुरुत. १३
Join Education
For Private Personal use only