SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ गुरुत. १२ जं जीअमसोहिकरं, ण तेण जीएण होइ ववहारो । जं जीअं सोहिकरं, तेण उ जीएण ववहारो ॥ ५१ ॥ 1 'जं जीअं'ति । यज्जीतमशोधिकरं न तेन जीतेन भवति व्यवहारः कर्त्तव्यः । यत्पुनजतं शोधिकरं तेन जीतेन भवति व्यवहारः ॥ ५१ ॥ शोधिकराशोधिकरजीतप्रतिपादनार्थमाह जं जीअमसोहिकरं, पासत्थपमत्तसंजयाईणं । जइ वि महाणाइन्नं, ण तेण जीएण ववहारो ॥ ५२ ॥ जं जीअं सोहिकरं, संवेगपरायणेण दंतेणं । इक्केण वि आइन्नं, तेण उ जीएण ववहारो ॥ ५३ ॥ 'जं जी'ति । यजतं पार्श्वस्थप्रमत्तसंयताचीर्णम्-अत एवाशोधिकरम्, तद् यद्यपि महाजनाचीर्ण तथाऽपि न तेन जीतेन व्यवहारः कर्त्तव्यस्तस्याशोधिकरत्वात् ॥ ५२ ॥ 'जं जीअं'ति । यत्पुनजीत संवेगपरायणेन दान्तेनैकेनाप्याचीर्ण तत् शोधिकरं तेन व्यवहारः कर्त्तव्यो भवति । न तु बहुजनापरिगृहीतत्वेनाऽस्याविश्वासः कर्त्तव्यः, बहुजनपरिगृहीतत्वस्य लोकधर्मेऽपि सत्त्वेन तस्य विश्वासानङ्गत्वात् - सदाचारपरिगृहीतत्वस्यैव तत्र तन्त्रत्वादिति भावः ॥ ५३ ॥ ननु यदि जीतं श्रुतापत्तितुल्यं तदा न श्रुतादतिरिच्येत यदि च ततो हीनमधिकं वा स्यात्तदोत्सूत्रं स्यादित्याशङ्कायामाह - हीणं वा अहियं वा, जइ वि सुआवत्तिओ हवइ एअं । तहवि सुआणुत्तिष्णं, परिणामविसेसमहिगिच्च॥५४॥ 'ati d'ति । हीनं वाऽधिकं वा यद्यपि श्रुतापत्तितो भवत्येतज्जीतं तथापि श्रुतानुत्तीर्ण 'परिणामविशेष' सहिष्णुता - सहिष्णुतादिलक्षणमधिकृत्य परिणामभेदेन सूत्रे हीनाधिकदानस्यापि सामान्यतोऽनुज्ञानाद् रागद्वेषाभ्यां हीनाधिकदानेनै Jain Education International For Private & Personal Use Only: orary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy