________________
अपरिण्णा कालाइसु, अपडिक्कंतस्स णिविगइअं तु । निविइयं पुरिमड्डे, अंबिल खवणाय आवासे ॥४५॥
'अपरिण्ण'न्ति । 'अपरिज्ञा' प्रत्याख्यान परिज्ञाया अग्रहणं गृहीताया वा भङ्गः, तत्र सूत्रे विभक्तिलोप आर्षत्वात्, तथा कालादिषु 'अप्रतिक्रमतः' अव्यावर्त्तमानस्य प्रायश्चित्तं निर्विकृतिकम् । किमुक्तं भवति । यदि नमस्कारपौरुष्यादिदिवस प्रत्याख्यानं वैकालिकं च पानाहारप्रत्याख्यानं न गृह्णाति गृहीत्वा वा विराधयति, तथा स्वाध्यानं प्रस्थाप्य यदि कालस्य न प्रतिक्रामति, न कालप्रतिक्रमणनिमित्तं कायोत्सर्ग करोति, आदिशब्दाद्येषु स्थानेष्वीर्यापथिकया प्रतिक्रमि तव्यं तेषु चेत्तथा न प्रतिक्रामति तदा प्रायश्चित्तं निर्विकृतिकपूर्वार्द्धाचाम्लक्षपणानि । इयमत्र भावना - आवश्यके यद्येकं कायोत्सर्ग न करोति ततः प्रायश्चित्तं निर्विकृतिकम्, कायोत्सर्गद्वयाकरणे पूर्वार्द्धम्, त्रयाणामपि कायोत्सर्गाणामकरणे आचाम्लम्, सर्वस्यापि चावश्यकस्याकरणेऽभक्तार्थ इति ॥ ४५ ॥
जं जस्स व पच्छित्तं, आयरिय परंपराइ अविरुद्धं । जोगा य बहुविगप्पा, एसो खलु जीअकप्पो उ ॥ ४६ ॥
‘जं जस्स व’त्ति। यत्प्रायश्चित्तं ‘यस्य' आचार्यस्य गच्छे आचार्य परम्परागतत्वेन 'अविरुद्धं' न पूर्वपुरुषमर्यादातिक| मेण विरोधभागू । यथा - अन्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भने प्रायश्चित्तमाचाम्लम् । तथा कल्पव्यवहारयोश्चन्द्रप्रज्ञप्तिसूर्यप्रज्ञत्योश्च केचिदागाढं योगं प्रतिपन्ना अपरे त्वनागाढमिति । 'एप' सर्वोsपि खलु गच्छभेदेन प्रायश्चित्तभेदो योगभेदश्चाचार्य परम्परागतः 'जीतकल्पः ' जीतव्यवहारो वेदितव्यः ॥ ४६ ॥ ननु
Jain Education International
For Private & Personal Use Only:
www.jainelibrary.org