SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ SAR त्तियुतः द्वितीयो: तदाह व्यवहारभाष्यकृत्-"सुत्तमणागयविसयं, खित्तं कालं च पप्प ववहारो । होहिंति ण आइल्ला, जा तित्थं ताव गुरुतत्त्वजीओ उ ॥ १॥” त्ति ॥ ४३ ॥ जीतविषयमेव कञ्चिद्व्यवहारगाथाभिर्दर्शयति विनिश्चयः लासः ददुरमाइसु कल्लाणगं तु विगलिंदिएसभत्तट्ठो । परिआवणाइ तेसिं, चउत्थमायंबिला हुँति ॥४४॥ व्यवहारगा'दहुरमाइसुत्ति । दर्दुरः-मण्डूकस्तदादिषु-तत्प्रभृतिषु मकारोऽलाक्षणिकः प्राकृतत्वात् , तिर्यक्पश्चेन्द्रियेषु जीविता-1 थामिः जीतव्यपरोपितेष्विति शेषः। 'कल्याणकं तु' इति, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-पञ्चकल्याणकं प्रायश्चित्तम् । वि | विषयनिकलानि-असम्पूर्णानीन्द्रियाणि येषां ते विकलेन्द्रियाः-एकद्वित्रिचतुरिन्द्रियाः, तत्र व्याख्यानतो विशेषप्रतिपत्तिरित्ये देशः केन्द्रिया अनन्तवनस्पतिकायिका द्रष्टव्यास्तेषु 'अभक्तार्थः' उपवासः प्रायश्चित्तम् । 'एतेषां' दर्दुरादीनां परितापनायां | यथासङ्ख्यं चतुर्थीचाम्ले प्रायश्चित्तं भवतः। इयमत्र भावना-यदि दर्दुरादीन् तिर्यक्पञ्चेन्द्रियादीन् गाढं परितापयति ततोऽभक्तार्थःप्रायश्चित्तम्, अथ विकलेन्द्रियाननन्तवनस्पतिकायिकप्रभृतीन् गाढं परितापयति तत आचाम्लम् । उपलक्षणमेतत् , तेनैतदपि जीतव्यवहारानुगतमवसेयम्-यदि दर्दरप्रभृतीन तिर्यक्पश्चेन्द्रियान्मनासंघट्टयति तत एकाशनकम्, अथानागाढं परितापयति तत आचाम्लम् । तथानन्तवनस्पतिकायिकद्वित्रिचतुरिन्द्रियाणां सङ्घट्टने पूर्व एतेषामेवानागाढपरितापने एकाशनम् । तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सङ्घट्टने निर्विकृतिकम् , अनागाढपरितापने पूर्वार्द्धम्, आगाढपरितापने एकाशनम्, जीवितान्यपरोपणे आचाम्लमिति ॥४४॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy