________________
IPIववहारे पण्णत्ते, तंजहा-आगमे सुए आणा धारणा जीए । जहा से तस्थ आगमे सिआ आगमेणं ववहारे पद्रवियो
सिया। णो से तत्थ आगमे सिया जहा से तत्थ सुए सिया सुएणं ववहारे पट्टवियत्वे सिया । णो से तत्थ सुए सिया जहा से तत्थ आणा सिआ आणाए ववहारे पट्टवियत्वे सिआ। णो से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारजाए ववहारे पट्टवियवे सिया। णो से तत्थ धारणा सिया जहा से तत्थ जीए सिआ जीएणं ववहारे पट्टवियत्वे सिया। एएहिं पंचहिं ववहारेहिं ववहारं पढविजा, तंजहा-आगमेणं सुएणं आणाए धारणाए जीएणं । जहा जहा से आगमे सुए आणा धारणा जीए तहा तहा ववहारं पढविज्जा । से किमाह? भंते!, आगमबलिआ समणा णिग्गंथा इच्चेयं पंचविहं ववहारं जया जया जहिं जहिं तया तया तहिं तहिं अणिस्सिओवस्सिअं बवहरमाणे समणे णिग्गंथे आणाए आराहए भवइ"त्ति । अत्रोत्क्रमेण व्यवहारप्रस्थापने चतुर्गुरुप्रायश्चित्तमुपदिश्यते, तदुक्तम्-"उप्परिवाडी भवे गुरुग"त्ति। नन्वेवं सत्यपि सूत्रे कथं पर्युषणातिथिपरावतादि जीतेन प्रायश्चित्तम् ? इति चेत्, न, अर्थानवबोधात्, श्रुतधरादिकं विमुच्य जीतधरस्य पार्श्वे प्रायश्चित्तादिप्रस्थापन एव प्रायश्चित्तप्रसङ्गात् , अन्यथागमसत्त्वे श्रुतालापव्यवहारादिनापि तदापत्तेः। किञ्च जीतव्यवहारस्तावदा तीर्थमस्त्येव, द्रव्यादिविमर्शाविरुद्धोत्सर्गापवादयतनाया एव प्रायो जीतरूपत्वात् , केवलमागमादिकाले सूर्यप्रकाशे ग्रहप्रकाशवत्तत्रैवान्तर्भवति न तु प्राधान्यमश्रुते । तथा च श्रुतकालीनं जीतमपि तत्त्वतः श्रुतमेवेति को दोषः? कदा तर्हि जीतस्योपयोगः? इति चेत्, यदा तस्य प्राधान्यम् , अत एव यदंशे जीते श्रुतानुपलम्भस्तदंशे इदानीं तस्यैव प्रामाण्यमिति । अत एव चानागतकालपरामर्शेनैवागमव्यवहारिकृते सूत्रे एतन्निबन्धः,
Jain Education International
For Private & Personal use only
www.jainelibrary.org