________________
स पुनरपि प्रकारान्तरमाह
यावच्चकरो वा, सीसो वा देसहिंडगो वावि । दुम्मेहत्ता सत्थं, ण तरइ सवं तु धारेउं ॥ ३०॥ IN तस्स उ उद्धरिऊणं, अत्थपयाइं तु दिति आयरिआ।तेहि उ कजविहाणं, देसावगमेण धारणया॥३१॥ 81 'वेयावच्चकरो वत्ति । 'तस्स उत्ति । 'वैयावृत्त्यकरो वा' गच्छोपग्रहकारी वा शिष्यो वाचार्याणां सम्मतः 'देशहि
ण्डको वा' यो देशदर्शनं कुर्वतः सहाय आसीत् दुर्मेधस्तया 'सर्व' निरवशेष 'शास्त्रं छेदश्रुतार्थ धारयितुं न शक्नोति तस्यानुग्रहार्थमुद्धत्य 'अर्थपदानि' कानिचिच्छेदश्रुतसम्बन्धीनि ददत्याचार्याः, तैः कार्यविधानं 'देशावगमेन' च्छेदश्रुतदे
शावधारणेन धारणया भवति । न चेयमपि गुरूपदेशमूलत्वादाज्ञैव, अत्र धारणाव्यापारस्यैव प्रवृत्त्यङ्गत्वादाज्ञाव्यापा-3 दरस्य सन्देशकवचनविश्वासार्थमेवोपयुक्तत्वादिति ॥ ३० ॥ ३१ ॥ उक्तो धारणाव्यवहारः। अथ जीतव्यवहारमाह
वत्तणुवत्तपवित्तो कत्थइ अत्थम्मि जीअकप्पो उ।सो चेव ण पुण इपिंह, जं ववहारम्मि भणियमिणं ३२॥ जीतव्यवहा| 'वत्तणुवत्तत्ति । वृत्तः-एकवारं प्रकटीभूतः, अनुवृत्तः-द्वितीयवारं प्रवृत्तः-तृतीयवारं 'क्वचिदर्थे' वक्ष्यमाणप्रायश्चि- रोपवर्णनम्, त्तादिविशेषविषये 'जीतकल्पस्तु' जीतव्यवहारस्तु 'तुः' विशेषणे, किं विशिनष्टि? महाजनाचीर्णत्वं, तथा च 'प्रवृत्तिजनककर्त्तव्यताबोधहेतुर्महाजनाचार एव जीतम्'इति लक्षणम्, तेन न प्रथमप्रवृत्त्यादावप्रसङ्ग इति द्रष्टव्यम् । वृत्तानुवृत्तप्रवृत्तत्वं किञ्चिदर्थविषयत्वं च वस्तुस्थित्यनुरोधादुक्तम् । अत एवाह-'स एवं' जीतकल्प एव न पुनरिदानीं सर्वत्रार्थे
JainEducation international
For Private Personal use only
www.jainelibrary.org