________________
सोऊण तस्स पडिसेवणं तु आलोअणाकमविहिं च ।आगम पुरिसज्जायं, परिआय बलं च खित्तं च ॥२४॥
'सोऊणं'ति । श्रुत्वा 'तस्य' आलोचकस्य प्रतिसेवनां 'आलोचनाक्रमविधिं च' आलोचनाक्रमपरिपाटी चावधार्य तथा तस्य यावानागमोऽस्ति तावन्तमागमं तथा 'पुरुषजातं'अष्टमादिभिर्भावितमभावितं वा पर्यायं गृहस्थपर्यायो यावानासीत् यावांश्च तस्य व्रतपर्यायस्तावन्तमुभयं पर्यायं 'वलं' शारीरिक तथा यादृशं तत्क्षेत्रमेतत्सर्वमालोचकाचार्यकथनतस्ततो दर्शनतश्चावधार्य स्वदेशं गच्छति ॥ २४॥ आहारेउं सवं, सो गंतूणं पुणो गुरुसगासं । तेसि णिवेएइ तहा, जहाणुपुट्विं गयं सवं ॥ २५॥ । _ 'आहार'ति । स आलोचनाचार्यप्रेषितं 'सर्वम्' अनन्तरोदितम् 'आ' समन्ताद्धारयित्वा पुनरपि स्वदेशागमनेन 3 गुरुसकाशं गत्वा 'तेषां' गुरूणां सर्व तथा निवेदयति यथा 'आनुपूर्व्या' परिपाट्या 'गतम्' अवधारितम् ॥ २५॥ सीसस्स देइ आणं, पएहिँ संकेइएहिँ सो निउणो । देइ इमं पच्छित्तं, एसो आणाइववहारो ॥२६॥ _ 'सीसस्सत्ति । स 'निपुणः' व्यवहारविधिज्ञो गीतार्थः शिष्यस्य सङ्केतितैः पदैराज्ञां दत्ते इदं प्रायश्चित्तं देहीति, एष आज्ञाव्यवहारः। सङ्केतितपदैराज्ञादानं चेत्थम्-"पढमस्स य कन्जस्स य, दसविहमालोअणं निसामित्ता । णक्खत्ते भे पीडा, सुक्के मासे तवं कुणह॥१॥"चउमासतवं कुणह सुक्के" "छम्मासतवं कुणह सुक्के" इति सञ्चारितान्त्यपदा पुनरेव गाथा द्विः पठनीया। आसामर्थः-'प्रथमस्य कार्यस्य' दर्पिकासेवनाख्यस्य 'दशविधां' दर्पाकल्पादिदशपदगर्भितामालो
प्रत. ११
Jain Education International
For Private Personal Use Only