________________
HARASHLICAUSESEARS
वशीकरणादि चूर्णयोगादि वा करोति ११ । आचार्यासहिष्णुग्लानबालवृद्धानां च येन समाधिर्भवति तद्विधीयते । तत्र राजयुवराजामात्यश्रेष्ठिपुरोहिता असहिष्णवः पुरुषा भण्यन्ते, एते ह्यन्तप्रान्तविपरिणाम्यन्ते, बालवृद्धौ च कारणाही. क्षितौ भवेयातां, यथाऽऽर्यवज्रस्वामी आर्यरक्षितपिता च, एतदर्थ पञ्चकदशकाद्यापत्तिक्रमेण यावदाधाकर्माप्यादीयत ४ इति १६ । 'उदक' नदीप्रवाहादि, अग्निः-दावाग्निः, चौरा द्विधा-वस्त्राद्यपधिहारिणः शरीरहारिणश्च, श्वापदाः-सिंह सिन्धुरव्याघ्रादयः, तन्निमित्तकोपद्रवोपस्थितौ स्तम्भनविद्यया नदीपूरादिकं स्तनीयात् , विद्याया अभावे पलायनं क्रियते, पलायनासमर्थत्वे श्रान्तत्वे वा सचित्तवृक्षेऽप्यारुह्यते २०॥ तथा भयं-धाट्यादिस्तस्मिन् सति पलायमानः पृथिव्यादीन् विराधयेत् २१ । कान्तारः-अरण्यानी यत्र भक्तपानादिलाभो न संभवत्येव तत्र कदल्यादिफलान्युदकादि वा प्रासुकमाददीत २२ । आपद्-द्रव्यक्षेत्रकालभावश्चतुर्की, द्रव्यतः प्रासुकोदकाद्यलाभे, क्षेत्रतो दीर्घावप्रतिपत्ती, कालतो दुर्भिक्षादौ, भावतो ग्लानत्वादी, तत्र किश्चिदकल्प्यमपि प्रतिसेव्यते २३ । व्यसननिमित्तं-पूर्वाभ्यासजनितप्रवृत्तिहेतो. गीतव्यसनी दीक्षितः कोऽपि गीतोच्चारं कुर्यात् , ताम्बूलव्यसनी वा प्रव्रजितः पक्कशुष्कताम्बूलपत्रादिकं मुखे प्रक्षिपेदिति २४ । एते चतुर्विंशतिः कल्पभेदाः ॥ २० ॥२१॥
दर्प-कल्पठावेउ दप्पकप्पे, हेट्ठा दप्पस्स दस पए ठावे । कप्पस्स चउबीसइ, तेसिमह हारस पयाइं ॥ २२॥ स्थापनाकर| 'ठावेउ'त्ति । स्थापयित्वा उपरि दर्पकल्पौ दर्पस्याधस्तादश पदानि स्थापयेत् , कल्पस्याधस्ताच्चतुर्विंशतिः । तेषां दश- णविधिः. चर्विशतिपदानामधोऽष्टादश पदानि व्रतपदादीनि स्थापयेत् ॥ २२ ॥ तथा च
SACANCIESCACAMA
CRACRENC
Jain Education International
For Private & Personal use only
Lainelibrary.org