SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ उदकासस्निग्धसरजस्काभ्यां हस्तमात्रकाभ्यामादानम्, अगीतार्थोत्पादिताहारोपधिपरिभोगः, पञ्चकादिप्रायश्चित्तयोग्य-र मपवादविधिं त्यक्त्वा गुरुतरदोषासेवनं चेति २। 'निरालम्बः' ज्ञानाद्यालम्बनं विनापि निष्कारणमकल्पिकासेवनम. यद्वामुकेनाचरितमित्यहमप्याचरामीति ३। 'चियत्तेत्ति, 'त्यक्तकृत्यः' त्यक्तचारित्रः-अपवादेनासंस्तरणे ग्लानादिकारणे वा यदकल्प्यमासेवितं पुनस्तदेव संस्तरणेऽपि निवृत्तरोगोऽपि यदासेवते ४ । 'अप्रशस्तः' अप्रशस्तभावेन बलवर्णाद्यर्थ यत्नासुकमपि भुले किं पुनरविशुद्धमाधाकर्मादि १५। 'विश्वस्तः' प्राणातिपाताद्यकृत्यं सेवमानः स्वपक्षात् श्रावकादेः परपक्षान्मिथ्यादृष्ट्यादेन बिभेति ६ । 'अपरिक्ख'त्ति, 'अपरीक्षकः' उत्सर्गापवादयोरायव्ययावनालोच्य यः प्रतिसेवते ७ । 'अकृतयोगी'ग्लानादिकार्येषु गृहेषु त्रिः पर्यटनरूपं व्यापारमकृत्वैव योऽनेषणीयमासेवते, अथवा संस्तरणादौ त्रीन् वारानेषणीया पर्यटता शेषगृहेणाप्यप्राप्तैषणीयेन चतुर्थवेलायामनेषणीयं ग्राह्यमित्येवं व्यापारमकृत्वैव प्रथमद्वित्रिवेलास्वप्यनेषणीयं गृह्णाति ८ 'अननुतापी' यः साधुरपवादेनापि पृथिव्यादीनां सङ्घटनपरितापनोपद्रवान् कृत्वा नानुतप्यते यथा 'हा! मया दुष्ठ कृतम्' इति, यस्तु दर्पणाप्यासेव्य नानुतप्यते किं तस्योच्यते ? ९ । 'निःशङ्कः' निरपेक्षःअकार्य कुर्वन् कस्याप्याचार्यादे शङ्कते नेहलोकादपि बिभेति १० । एते दर्पस्य दश भेदाः ॥ १९॥ दसण नाण चरित्ते, तैव पैवयण समिइ युत्तिउं वा । साहम्मिअवच्छल्लेण वावि कुलओ गणस्सेव ॥२०॥ चतुर्विंशतिसंघस्सायरियस्स य, असहुस्स गिलाण बोल बुड्ढस्स।उँदय गिर्ग चोरै साँवय, भैय कतीरा वैई वेसणे २१/ कल्पभेदा'दसण'त्ति । दर्शननिमित्तं-दर्शनप्रभावकाणि सम्मत्यादीनि प्रमाणशास्त्राणि गृह्णन् यदसंस्तरणेऽकल्प्यमपि प्रतिसेवते भिधानम्. USHA Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy