SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ |र्श्वगमननिमित्तमुत्पन्नमित्याज्ञामिच्छामीति ततो मतिधारणयोर्निपुणं शिष्यं गीतार्थस्य पार्श्वे प्रेषयति ॥ १३ ॥ सो गीओ तं सीसं, आणापरिणामगं परिच्छिना । पेसेइ बुहं णाउं, उवट्टियालोअणं सोउं ॥ १४ ॥ 'सो'त्ति । 'सः' आलोचनाचार्यो गीतार्थोऽपराक्रमः सन् यं प्रेषयितुमिच्छति तं शिष्यमाज्ञापरिणामकं परीक्षेत । आज्ञापरिणामको नाम कारणपृच्छां विनैव य आज्ञायाः कर्त्तव्यतां श्रद्धत्ते । तत्परीक्षा च वृक्षादिदृष्टान्तैः कार्या, तत्र वृक्षदृष्टान्तो यथा - महतो वृक्षान् दृष्ट्वोक्तमाचार्येण शिष्यं प्रति-अस्मिन्नुञ्चैस्तरे वृक्षे विलग्य प्रपातं कुर्विति । तत्रातिपरिणामको ब्रूते - करोम्यस्माकमध्येपैवेच्छेति । स गुरुणा सोपालम्भं निवारणीयः - किमपरीक्ष्य मद्वचनार्थं त्वमेयं प्रलपसीति । अपरिणामकरतु जानाति न वर्त्तते वृक्षे विलगितुं साधोः सचित्तत्वाद्वृक्षस्य प्रपातं कुर्वतञ्चात्मविराधना भवति सा च भगवता निषिद्धा तन्नूनमहमनेनोपायेन हन्तव्योऽभिप्रेत इति । स एवमनुशासनीयः - वत्स ! न मया तव सचित्तवृक्षारोहृणं विधेयमुक्तम्, न वर्त्तते साधोर्वृक्षे विलगितुमिति, किन्तु भवसमुद्रमध्यप्राप्तं तपोनियमज्ञानवृक्षमारुह्य संसारगर्त्त कूलमुलयेति भणितस्त्वमिति । परिणामकस्तु जानाति न खलु मदीया गुरवः स्थावराणामपि पापमिच्छन्ति किं पुनः पञ्चेन्द्रियाणाम् ? इति भवितव्यमत्र कारणेने त्यारोहणे व्यवसितो भवति, स च वाहौ धृत्वावष्टभ्य गुरुणा वारणीय इति । एवं बीजादिदृष्टान्ता अध्यागमादवसेयाः । ततस्तं शिष्यं परीक्ष्य 'बुद्ध' परिणतं ज्ञात्वा उपस्थितस्य - आलोचनार्थं व्यवसितस्यालोचनां श्रोतुं प्रेषयति ॥ १४ ॥ सो पुण तस्स सगासे, करेइ सोहिं पसत्थजोगेणं । दुगतिग चउसु विसुद्धं, तिविहे काले वियडभावो ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy