SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ छेदो मूलमनवस्थाप्यं पाराश्चितं वा । तथा तुल्येऽपि पाराञ्चितयोग्येऽपराधे एकस्य पाराश्चितकमपरस्यानवस्थाप्यं मूलं छेदो वा मासेन मासाभ्यां मासैर्वा हीनं तपो वा यावन्नमस्कारसहितमित्यादि । प्रायश्चित्तविषये निमित्तभूतां रागद्वे-18 षयोवृद्धिं वा हानि वा यथा जिना जानन्ति तथा श्रुतकेवल्यादयोऽपीति तेषां तत्सादृश्यम् ॥ ९॥ ननु केवलिन एवं तावत्कथं स्तोकेऽपराधे बहु प्रायश्चित्तं प्रयच्छन्ति भूयसि च स्तोकम् ? इति तत्राह थोवं बहुंच दिति उ, आगमिआ रयणवणिअदिटुंता । पारुक्खी जं जाणइ, दिद्रुतो तत्थ धमएण॥१०॥ RI 'थोति । तुल्येऽप्यपराधे स्तोकं वहु च प्रायश्चित्तं ददति 'आगमिकाः' आगमव्यवहारिणो रत्नवणिग्दृष्टान्तात् , यथा रत्नवणिग्महतोऽपि काचमणेमूल्यं काकिनीमात्रं ददाति वज्ररत्नस्य त्वल्पस्यापि शतसहस्रं तथागमव्यवहारिणोऽपि रागद्वेषस्तोकतायां महत्यप्यपराधेऽल्पं प्रायश्चित्तं प्रयच्छन्ति तद्वद्धौ च स्वल्पेऽपि बहु प्रयच्छन्तीति । परोक्षज्ञानी कथं परभावं जानाति ? इत्यत्र दृष्टान्तमाह-'पारुक्खि'त्ति । 'परोक्षी' परोक्षज्ञानी यज्जानाति तत्र 'ध्मायकेन' शङ्ख मायकेन दृष्टान्तः, यथा-नाडिकायां गलन्त्यामुदकगलनपरिमाणतो जानात्येतावत्युदके गलिते यामो दिवसस्य रात्रेवा जगत इति, ततोऽन्यस्य परिज्ञानाय शङ्खध्मायति । तत्र यथान्यो जनः शङ्खस्य शब्देन श्रुतेन यामादिलक्षणं कालं जा नाति तथा परोक्षागमज्ञानिनोऽपि श्रुत्वाऽऽलोचनामालोचकस्य यथावस्थितं भावं जानन्ति । ज्ञात्वा च तदनुसारेण प्रायश्चित्तं ददतीति ॥ १० ॥ कथं तद्ददति ? इत्याहपच्छित्तं दिति इमे, आगमआलोअणाण तुल्लत्ते।साहेति पुणो दोसे, मायासहिए ण साहिति ॥११॥ Jain Education International For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy