________________
स्वोपज्ञवृतियुतः द्वितीयो -
॥ ५५ ॥
Jain Educatio
विविहं वा विहिणा वा ववणं हरणं च होइ ववहारो । दवम्मि पुत्थयाई, णोआगमओ अ पंचविहो ॥३॥ ‘विविहं’ति । ‘विविधं’ तत्तद्योग्यतानुसारेण विचित्रं 'विधिना' सर्वज्ञोक्तप्रकारेण वा 'वपनं' तपःप्रभृत्यनुष्ठानविशेपस्य दानं 'दुवपी बीजतन्तुसन्ताने' इति वचनात् 'हरणम्' अतिचारदोषजातस्य, अथवा संभूय द्वित्रादिसाधूनां कचिप्रयोजने प्रवृत्तौ यद्यस्मिन्नाऽऽभवति तस्य तस्मिन् वपनमितरस्माच्च हरणमिति व्यवहारः । विवापहार इति रूपप्राप्तौ विवा पशब्दयोर्व्यवआदेशः पृषोदरादित्वात् । अर्थिप्रत्यर्थिनोर्विवदमानयोर्व्यवहारार्थ स्थेयपुरुषमुपस्थितयोर्यस्य यन्नाऽऽभवति तस्मात्तदपहृत्य यद्वितीयाय प्रयच्छत्येष स्थेयव्यापारो व्यवहार इति समुदायार्थः, क्रियामात्रमपेक्ष्य चैतन्निर्वचनम् । प्रकृते च करणव्युत्पत्तिराश्रयणीया, विधिना उप्यते ह्रियते च येन स व्यवहार इति । स च नामस्थापनाद्रव्यभावभेदाच्चतुर्विधः । तत्र नामस्थापने सुगमे । द्रव्यव्यवहारो द्विधा आगमतो नोआगमतश्च । आगमतो व्यवहारपदज्ञाता तत्र चानुपयुक्तः । नोआगमतस्त्रिधा ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्, तत्राद्यौ प्रतीतौ । 'द्रव्ये' द्रव्यविषये 'पुस्तकादिः ' व्यवहार ग्रन्थ एव पुस्तकपत्रादि लिखितः । अथवा लौकिक कुप्रावच निकलोकोत्तर भेदात्रिविधः, तत्र लौकिको यथा-आनन्दपुरे खङ्गादावुद्गीर्णे रूपकाणामशीतिसहस्रं दण्डो मारितेऽपि तावानेव, प्रहारे तु पतिते यदि कथमपि न मृतस्तदा रूपकपञ्चकदण्डः, उत्कृष्टे तु कलहे प्रवृत्तेऽर्द्धत्रयोदशरूपका दण्डः । कुप्रावचनिको यथा-यत्कर्म यो न करोति ततः कर्मणस्तस्य किञ्चिदिति । लोकोत्तरिको यथा-य एते पाण्डुरपटप्रावरणा जिनानामनाज्ञया स्वच्छन्दं व्यवहरन्तः परस्परमशनपानादिरूपं व्यवहारं कुर्वन्तीति । भावव्यवहारो द्विधा - आगमतो नोआगमतश्च, आगमतो व्यवहारपदार्थज्ञाता तत्र चोपयुक्तः,
For Private & Personal Use Only
गुरुतत्त्वविनिश्चयः
लासः
व्यवहारप्र रूपणा.
।। ५५ ।।
nelibrary.org