SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अथ गुरुतत्त्वविनिश्चये द्वितीयोल्लासः। गुरोर्लक्षणम् विवृतः प्रथमोल्लासः । अथ द्वितीयो वित्रियते, तत्र प्रथमे व्यवहारः समाहितो द्वितीये चानेनैव गुरुरुत्कृष्यत इत्येतद्विवेकद्वारा गुरुतत्त्वं निश्चेतव्यमित्यभिप्रायवानाहववहारं जाणंतो, ववहारं चेव पन्नवेमाणो । ववहारं फासंतो, गुरुगुणजुत्तो गुरू होइ ॥१॥ ___ 'ववहारं ति। व्यवहारं जानानो व्यवहारमेव प्रज्ञापयन् 'व्यवहार' शुद्धसाध्वाचाररूपं 'स्पृशन्' कायेनासेवमानो गुरुगुणयुक्तो गुरुर्भवति, क्रियायामेव रत्नत्रयसाम्राज्यात्, क्रियायबोधस्य ज्ञानत्वात् , क्रियारुचेर्दर्शनत्वात्, क्रियाया एव च चारित्रत्वात् , व्यवहारस्य च क्रियालक्षणत्वात् । अथवा सम्पूर्ण व्यवहारे साक्षात् पारम्पर्येण वा सर्वेऽपि ज्ञानहै क्रियाभेदा अन्तर्भवन्तीत्यनेनैव सर्वगुणसामग्र्यं सिद्धमिति ॥ १॥ व्यवहारप्ररूपणमेव यथास्थितमाहविवहारो ववहारी, ववहरिअवं च एत्थ णायत्वं । नाणी नाणं नेयं, नाणम्मि परूविअम्मि जहा ॥२॥ हा 'ववहारो'त्ति । 'अत्र' व्यवहारे प्ररूपयितव्ये व्यवहारो व्यवहारी व्यवहर्त्तव्यं चेति त्रयं ज्ञातव्यं भवति, व्यवहारवा चकस्यापि व्यवहारपदस्थेतरद्वयाक्षेपकत्वात् । यथा ज्ञाने प्ररूपिते ज्ञानी ज्ञानं ज्ञेयं चेति त्रयमपि ज्ञातव्यम्, न पत्र यथाश्रुतार्थमात्रप्ररूपणे निराकासप्रतीतिः सिध्यतीति ॥२॥ तत्र व्यवहारं तावारूपयति 9CALCDCCCCCCCOUGARCHUSANSAR व्यवहारप्ररूपणायां व्यवहारो व्यवहारी व्यवहर्त्तव्यं चज्ञातव्यम्, शुरुत. १० Jain Education temin For Private Personal use only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy