________________
स्वोपज्ञवृ- यन्ति, एतत्पञ्चसु कल्याणकेष्वेकैकं कल्याणकं प्रत्येकमविच्छित्य कर्तुमसहस्य-असमर्थस्य दानमुक्तम् । अथवाऽयमन्यो। गुरुतत्त्वत्तियुतः विकल्प:-'सन्निकाशं सन्निभं वा कारयन्ति, इयमत्र भावना-यत्पञ्चकल्याणकमापन्नं तन्मध्यादाद्यं द्वितीयं तृतीयं विनिश्चयः प्रथमो-18वा कल्याणकमेकतरं यथाक्रमेण वहति शेषमाचाम्लादिभिः प्रदेशयति ॥ ९८ ॥ पुनरन्यथाऽनुग्रहप्रकारमाह
लास: ॥५० चउतिगद्गकल्लाणं, एगं कल्लाणगं च कारेंति । जं जो उत्तरति सुहं, तं तस्स तवं पभासिंति॥१९॥
'चउत्ति । यदि वा पञ्चकल्याणकमुक्तस्वरूपं यथाक्रमेणाविच्छित्य कर्तुमशक्नुवन्तं चतुष्कल्याणकं कारयन्ति, तदपि । कर्तुमशक्नुवन्तं निकल्याणकम् , तथाप्यसमर्थतया द्विकल्याणकम् , तदपि कर्तुमशक्नुवन्तमेककल्याणकं कारयन्ति । किं बहुना ? यो यत्तपः कर्तुं शक्नोति तस्य तद्वदन्ति नाधिकम् , आवाधासम्भवात् । अथैकमपि कल्याणकं कर्तुं न शक्नोति तदा तस्यासमर्थस्य सर्व झोपयित्वा एकमभक्तार्थ दीयते, अथवैकमाचामाम्लं यदि वा एकमेकाशनकमथवैकं पूर्वार्द्धमथवा निर्विकृतिकं ददति, यदि च न किञ्चिद्ददति तदानवस्थाप्रसङ्गः॥ ९९॥ एतदेव स्पष्टयतिएवं सदयं दिजति, जेणं सो संजमे थिरो होइ।ण य सबहा ण दिजति, अणवत्थपसंगदोसाओ॥२०॥ __'एवं'ति । 'एवम्' अमुना प्रकारेण 'सदयं' सानुकम्पं दीयते प्रायश्चित्तं येन स संयमे स्थिरो भवति, न च सर्वथा न दीयते, अनवस्थाप्रसङ्गदोपात् । अत्र तिलस्तेनदृष्टान्तो भावनीयः, तथाहि-एको बालः स्नानं कृत्वा रममाणस्तिलराशौ ॥५ ॥ निमग्नः, ततो बाल इति कृत्वा न केनचिद्वारितः, तिलाश्च शरीरे लग्नानाः, ततोऽसौ सतिलो गृहमागतः, मात्रा तिला
ARXIPARRAG
For Private & Personal Use Only