________________
वोपज्ञवृत्तियुतः प्रथमो
॥ ४९ ॥
Jain Educatio
'सर्व पित्त । सद्विभवो धारकः सर्वमपि धनं धनिकेन दत्तं 'मार्गितः' याचितः सन् तत्कालं दत्ते, यः पुनरसद्विभवो धारकस्तत्र 'निरपेक्षः' कर्कशग्रहेण धनस्य ग्रहीता 'फलवन्ध्यः' धनप्राप्तिलक्षणफलशून्यो भवति ॥ ९२ ॥ यतः - णासेइ किलेसेणं, धणमप्पाणं च धारगं चेव । जो पुण सहेइ कालं, साविक्खो रक्खई सर्व्वं ॥ ९३॥
1
'णासेइ 'त्ति । क्लेशेनासद्विभवस्य धारकस्य पादौ गृहीत्वाऽऽत्मीयपादेन सह बद्धा पतनादिलक्षणेन धनमात्मानं | धारकं च नाशयेत्, क्लेशवशेनात्मनः परस्य वा व्यपरोपणसम्भवात् । यः पुनः कालं सहते सः 'सापेक्षः' उपायेन ग्रहण - प्रवणः सर्वे रक्षयति, धनिकानुमत्या धारकेन प्रतिमासं किञ्चिद् वृद्ध्या धनधारणे तद्गृह एव कर्मकरणे चाल्पेन कालेन ऋणमुक्तेर्धारकस्य स्वस्य च सन्तोषाद्धनस्य चाक्षयत्वसिद्धेरिति ॥ ९३ ॥ उपनयमाह -
संतविभवेहिँ तुला, धिइसंघयणेहिँ जे उ संपन्ना । ते आवण्णा सवं, वहति णिरणुग्रहं धीरा ॥ ९४॥ 'संतविभवेहिं 'ति । ये धृतिसंहननाभ्यां 'संपन्नाः' युक्ताः सद्विभवैस्तुल्यास्ते धीराः सर्वमापन्नप्रायश्चित्तं 'निरनुग्रहम्' अनुग्रहरहितं वहन्ति ॥ ९४ ॥ संघयणधितिविहीणा, असंतविभवेहिं होंति तुल्ला उ। णिरविक्खो जड़ तेसिं, देइ ततो ते विणस्संति ॥९५॥ 'संघयण'ति । ये पुनर्धृति संहननाभ्यां विहीनास्तेऽसद्विभवैस्तुल्याः, तेषां यदि निरपेक्षः सन्निरवशेषं प्रायश्चित्तं ददाति ततस्ते विनश्यन्ति, तथाहि--- ते तत्प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तस्तपसा कृशीकृता जीवितादपगच्छेयुः, यदि वा
national
For Private & Personal Use Only:
गुरुतत्त्वविनिश्चयः
लासः
॥ ४९ ॥
Pahelibrary.org