________________
तम्हा पयअिवं, सम्मं निउणं गुरुं णिहालेउं । होयवं भीएणं, गयाणुगतिएण वा ण पुणो ॥७९॥ 'तम्ह'ति । तस्माद्दुष्षमायां कुगुरुबाहुल्यात्सम्यग् निपुणं गुरुं निभालय प्रवर्त्तितव्यं, न तु भीतेन, सर्वत्र दोषदर्शनाद् गतानुगतिकेन वा, सर्वजनसाधारण्याद् भवितव्यं, सुपरीक्ष्यकारित्वात्सम्यग्दृष्टेः ॥ ७९ ॥ अथैक्याभावाद्व्यवहाराव्यवस्थितत्वमाक्षिप्तं समाधत्ते
Preparओ चिय, ववहारो जइ वि संपयं बहुलो ।
सुत्तायरणाणुगया, तहवि हु किरिया ण बुच्छिन्ना ॥ १८० ॥
'णियमइ'त्ति । निजमतिविकल्पित एव यद्यपि साम्प्रतं व्यवहारो बहुलो दृश्यते तथापि सूत्राचरणानुगता क्रिया नास्ति व्युच्छिन्ना, प्रत्यक्षत एव तस्या अखण्डाया अखण्डितपरम्परायामुपलभ्यमानत्वात् ॥ १८० ॥ संयमविच्छेदादिकमाक्षिप्तशेषं समाधत्ते 'आगमववहारीण वि' इत्यादिना -
आगमववहारीण वि, वुच्छेए संजमो ण बुच्छिन्नो । तत्तो णिज्जूढाओ, पायच्छित्तस्स ववहारा ॥८१॥
आगमव्यवहारिणां व्युच्छेदेऽपि संयमो न व्युच्छिन्नः, तत एव आगमात् 'निर्यूढात्' प्रकल्पव्यवहारलक्षणश्रुतात् प्रायश्चित्तस्य व्यवहारादविच्छिन्नमूलत्वेन तद्विश्वासात्ततश्चारित्रशुद्धेः, तदुक्तम् - " सवं पि य पच्छित्तं, पच्चक्खाणस्स तइअवत्थुम्मि । तत्तो चिअ निज्जूढं, पकष्पकप्पो य ववहारो ॥ १ ॥” इति ॥ ८१ ॥ प्रायश्चित्तसत्तामेवोपपादयति
Jain Education International
For Private & Personal Use Only:
साम्प्रतीन
व्यवहाराव्यवस्थित
त्ववादिनां
निरसनम्.
चारित्रवि
च्छेदादिक
थकानां नि
रासः
w.jainelibrary.org