SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 06 गुरुतत्त्व स्त्रोपज्ञव- सबजिएहिँ अणंत, भागं च गुणं असंखलोगेहिं । जाण असंखं संखं, संखिजेणं च जिट्टेणं ॥४२॥ त्तियुतः विनिश्चयः हा 'सबजिएहिँ 'ति । अत्र षड्वृद्धिरूपे पदस्थाने भागं च गुणं च अनन्तं सर्वजीवैर्जानीहि, असङ्ख्यं च 'असङ्ख्यलोकैत प्रथमो ल्लास: असङ्ख्यलोकाकाशप्रदेशैः, 'सङ्ख्यं' सङ्ख्येयं च 'ज्येष्ठेन' उत्कृष्टेन सङ्ख्येयेन, तथाहि-यद्यत्संयमस्थानमनन्तभागवृद्धमुपल॥३९॥ भ्यते तत्तत्पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य निर्विभागानां भागानां सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते तावत्प्रमाणेनानन्तभागेनाधिकमवगन्तव्यम्, यच्चासङ्ख्येयभागवृद्धं तत्पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य सम्बन्धिनां निविभागभागानामसङ्ख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हृते सति यल्लभ्यते तावत्प्रमाणेनासङ्ख्येयभागेनाधिकम् , यच्च सङ्ख्येयभागवृद्धं तत्पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्योत्कृष्टन सङ्ख्येयेन भागे हृते सति यल्लभ्यते तावत्प्रमाणेन सङ्ख्येयतमेन भागेनाधिकम् , यच्च सङ्ख्येयगुणवृद्धं तत्साश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य ये निर्विभागा भागा उत्कृष्टेन सङ्ख्येयकप्रमाणेन राशिना गुणिता यावन्तस्तावत्प्रमाणम् । एवमसङ्ख्येयगुणवृद्धौ पाश्चात्यस्य संयमस्थानस्य ये निर्विभागा भागास्तेऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणेनासङ्ख्येयेन गुण्यन्ते, अनन्तगुणवृद्धौ च सर्वजीवप्रमाणेनानन्तेनेति ॥ ४२॥ एयं चरित्तसेटिं, पडिवज्जइ हिट्ठ कोइ उवरिं वा। जो हिट्ठा पडिवजइ, सिज्झइ णियमा जहा भरहो ॥४३॥ 'एय'ति । एतां चारित्रश्रेणिं कश्चिज्जीवोऽधस्ताजघन्यसंयमस्थानेषु प्रतिपद्यते, कश्चित्पुनः 'उपरि' उपरितनेषु पर्यन्त CARRCLIC ककककक Jain Education international For Private & Personal use only inww.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy