________________
SHARELUGAIRECORDER
वर्तिषु, उपलक्षणत्वान्मध्यमेषु वा संयमस्थानेषु प्रतिपद्यते, तत्र योऽधस्तनेषु संयमस्थानेषु चारित्रश्रेणिं प्रतिपद्यते स| नियमात्तेनैव भवग्रहणेन सिध्यति यथा भरतश्चक्रवर्ती ॥ ४३ ॥ मझे वा उवरिं वा, णियमा गमणं तु हिट्ठिमं ठाणं । अंतोमुहुत्तवुड्डी, हाणी वि तहेव नायवा ॥४४॥ _ 'मज्झे वत्ति । यः पुनः 'मध्ये वा' मध्यमेषु वोपरितनेषु वा संयमस्थानेषु चारित्रश्रेणिं प्रतिपद्यते तस्य नियमादधस्तनं | संयमस्थानं यावद्गमनं भवति, ततोऽसौ तेनान्येन वा भवग्रहणेन सर्वाणि संयमस्थानानि स्पृष्ट्वा सिध्यति । न च स्तोक-18 काले सर्वस्थानानांप स्थानपतितानां बहुत्वेन स्पर्शानुपपत्तिरिति शङ्कनीयम्, प्रतिसमयमसङ्खयेयलोकाकाशप्रदेशप्रमाणानां | षट्स्थानपतितानां संयमाध्यवसायस्थानानां स्पर्शाभ्युपगमेनानुपपत्त्यभावात् । या पुनरधस्तनसंयमस्थानेभ्य उपरितनसंयमस्थानारोहणलक्षणा वृद्धिः साऽन्तर्मुहूर्त्तमात्रा भवति, या चोपरितनसंयमस्थानेभ्योऽधस्तनसंयमस्थानेष्ववरोहणरूपा हानिः सापि तथैव' अन्तर्मुहूर्त्तमात्रैव ज्ञातव्या, द्वे अप्येते कल्पभाष्यगाथे ॥ ४४॥ थोवाऽसंखगुणाई, पडिलोमकमेण हुंति ठाणाई । एसा संखेवेणं. संजमसेढीपरूवणया ॥ ४५ ॥
'थोव'त्ति । स्तोकान्यसङ्ख्यातगुणानि च 'प्रतिलोमक्रमेण पश्चानुपूर्व्या स्थानानि' संयमस्थानानि भवन्ति । तथाहिसर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि कण्डकमात्रत्वात्तेषाम् , तेभ्योऽसङ्ख्येयगुणवृद्धानि स्थानान्यसङ्ख्येयगुणानि, गुणकारश्चेह कण्डकप्रमाणो ज्ञातव्यः, एकैकस्यानन्तगुणवृद्धस्य स्थानस्याधस्तात्प्रत्येकमसङ्ख्येयगुणवृद्धानि स्थानानि कण्डकमा
, "पदस्थानपतितानाम्" इति पाठ एक एव पुस्तके लभ्यते ।
LOCALCREAMSARDAMOCRACHCARE
Jan Education international
For Private
Personal use only
elorary.org