________________
जत्तिया परसा, अविभाग तओ अनंतगुणा ॥ १ ॥” इति । सङ्ख्यातीतानि च संयमस्थानानि कण्डकं भवति ज्ञातव्यम् ॥ ३५ ॥ संखाईआणि उ कंडगाणि छट्टाणगं विणिदि । छट्ठाणा उ असंखा संजमसेढी मुणेया ॥ ३६ ॥ 'संखाई आणि उ'ति । सङ्ख्यातीतानि च कण्डकानि षट्स्थानकं विनिर्दिष्टं, षट्स्थानानि चासङ्ख्यातानि संयमश्रेणिज्ञ - तव्या ॥ ३६ ॥ एतदेव यथोत्तरवृद्ध्यादिक्रमप्रदर्शनपूर्वं विवेचयति
ठाणेहिँ पढमठाणा, जहुत्तरमणंत भागवुड्डेहिं । कण्डगमंगुलखित्तासंखिजंसप्पमाणेहिं ॥ ३७ ॥
'ठाणे हँ' इत्यादि । 'प्रथमस्थानात्' प्रथमस्थानमादीकृत्य 'यथोत्तरं ' द्वितीयतृतीयाद्युत्तरस्थानानुक्रमेण 'अनन्तभागवृद्धैः' पूर्वपूर्वस्थाना विभागभागानां योऽनन्ततमो भागस्तद्धिकैः स्थानैरङ्गलक्षेत्रस्य - अङ्गुलमात्रक्षेत्रस्य योऽसङ्ख्यांशःअसङ्ख्येयो भागस्तत्प्रमाणैः - तद्गत प्रदेशराशिसम सङ्ख्यैः सम्पन्नैः कण्डकं समयपरिभाषया परिभाष्यते, तदुक्तम् - " कंड ति इत्थ भन्नइ, अंगुलभागो असंखिज्जो ।” इति । अयं भावः - प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया द्वितीयमन न्ततमभागवृद्धम्, ततस्तृतीयम्, एवमुत्तरोत्तराणि यावदङ्गुलमात्रक्षेत्रासङ्ख्येयांशप्रदेशमानानि भवन्ति तावत्समुदितानां तेषां कण्डकसञ्ज्ञा भवतीति ॥ ३७ ॥
कंडगमित्ताणं तं साहिअठाणंतराइँ ठाणाई | कंडगमित्ताइं तओ, हुंति असंखंसबुड्डाई ॥ ३८ ॥ 'कंडग'ति । ' ततः' तस्मात् कण्डकात्परतो यदनन्तरं संयमस्थानं तत् प्राक्तनस्थानगतनिर्विभागभागापेक्षयाऽसङ्ख्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org