SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृ. त्तियुतः प्रथमो. ल्लासः हेतौ, यस्मात्स यथावादमकुर्वन् परस्य शङ्कामुत्पादयति, यथा-यदि यत् प्रवचनेऽभिधीयते तत्तत्त्वं तर्हि किमयं तत्त्वं गुरुतत्त्व. जानानोऽपि तथा न कुरुते? तस्माद्वितथमेतत्प्रवचनोक्तमिति, एवं च परस्य शङ्कां जनयन मिथ्यात्वं सन्तानेन वर्धयति, विनिश्चयः तथा च प्रवचनस्य व्यवच्छेदः। शेषास्तु मिथ्यादृष्टयो नैवं प्रवचनस्य मालिन्यमापाद्य परम्परया व्यवच्छेदमाधातुमीशाः, ततः शेषमिथ्यादृष्ट्यपेक्षयाऽसौ यथावादमकुर्वन् महामिथ्यादृष्टिरिति पिण्डनियुक्तौ व्याख्यानमेतत् । नन्वेवं यथावादाकारिणः परमिथ्यात्वोत्पादकत्वेन व्यवहारत एव मिथ्यात्वमागतं न तु निश्चयतः? इति चेन्न, यथावादाकारित्वेनैव निश्चयतो मिथ्यात्वोपपत्तेः, एकप्रतिज्ञाभङ्गे सर्वचरणभङ्गात्, तद्भङ्गे च ज्ञानदर्शनयोरपि भङ्गात्, तयोश्चरणफलत्वात् , फलाभावे च हेतोनिरर्थकत्वात् । अत एव-"णिच्छयणयस्स चरणायविघाए नाणदसणवहो वि।" इत्यस्य व्याख्याने इयमेव गाथा पिण्डनियुक्ती सम्मतितयोद्भाविता। मिथ्यात्ववर्द्धनलक्षणव्यावहारिकमिथ्यात्वानुप्रवेशेन च महामिथ्याष्टित्वमुपपद्यत इति सर्वमवदातम् ॥ ३१॥ व्यवहाराभिप्रायमाह सेढीए भहस्स वि,भजं ववहारओ उमिच्छत्तं । जंहोइ अभिणिवेसे, अणभिणिवेसे अ णो हुज्जा ॥३२॥ ___ 'सेढीए'त्ति । श्रेणितः' संयमश्रेणितः 'भ्रष्टस्य' पतितस्यापि 'व्यवहारतः' व्यवहारनयमधिकृत्य 'भाज्य' भजनीयं कस्यचित स्यात कस्यचिच्च नेति भावः'यत' यस्माद 'अभिनिवेशे' एकान्तेन भगवत्प्रवचनविप्रतिपत्तिलक्ष-12 णेऽसङ्गहे सति मिथ्यात्वं श्रेणिभ्रष्टस्य भवति । अनभिनिवेशे तु तस्य देशविरतिं भगवति श्रद्धानमात्रं वा दधानस्य न भवति मिथ्यात्वम्, तत्कार्यस्यासदहस्याभावात् , सम्यक्त्वकार्यस्य च पश्चात्तापादिपरिणामस्य सत्त्वात् ॥ ३२॥ यत एव EMALEBRUARMA Jain Ede For Private Personal Use Only www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy