________________
तन्निर्वाहार्थं पुष्टमालम्बमानानामपि तादृशचारित्रशुद्धये तस्यात्यन्तनिषेधार्थमप्काया दिसेवने मिथ्यात्वं भणितं महानिशीथे । तथा चोक्तं सावद्याचार्याधिकारप्रान्ते- “से भयवं । किं पच्चइअं तेणाणुभूयं एरिसं दूसहं घोरदारुणं महादुक्खसन्निवायसंघट्टमित्तियकालं ति ? गोयमा ! जं भणियं तक्कालसमयम्मि जहा णं उस्सग्गाववाएहिं आगमो ठिओ एगंतो मिच्छत्तं जिणाण आणा अणेगंतो त्ति एयवयणपच्चइअं । से भयवं ! किं उस्सग्गाववाएहिं णं णो ठिअं आगमं एतं च पन्नविज्जइ ? गोयमा ! उस्सग्गाववाएहिं चेत्र पत्रयणं ठियं अणेगंतं च पन्नविज्जइ नो णं एतं । णवरं आउक्कायपरिभोगं ते काय समारंभं मेहुणासेवणं च, एते तओ ठाणंतरे एगंतेणं ३ णिच्छयओ ३ वाढ ३ सवया सबपयारेहिं णं आयहियद्वीणं णिसिझंति, एत्थं च सुत्ताइक्कमे सम्मग्गविष्वणासणं उम्मग्गपयरिसणं, तओ य आणाभंगो, आणागंगाओ अनंतसंसारि"त्ति । निश्चयतः पुनरन्यस्याप्कायादि विरमणातिरिक्तविरतिगुणस्य भङ्गेऽपि तन्मिथ्यात्वं व्यवस्थितम् ॥ १३० ॥ तथा चाह
जो जहवायं ण कुणइ, मिच्छदिट्टी तओ हु को अन्नो । वड्ढेड़ अ मिच्छत्तं, परस्स संकं जणेमाणो ॥३१॥
'जो जहवार्य'ति । इह यद्देशकाल संहननानुरूपं यथाशक्ति यथावदनुष्ठानं तत्सम्यक्त्वम्, यत उक्तमाचारसूत्रे - "जं मोणं ति पासहा तं सम्मं ति पासहा, जं सम्मं ति पासहा तं मोणं ति पासहा ।" इति । ततो यो देशकाल संहननानुरूपं शक्त्यनिगूहनेन यथाऽऽगमेऽभिहितं तथा न करोति ततः सकाशात्कोऽन्यो मिथ्यादृष्टिः । नैव कश्चित् किन्तु स एव मिथ्यादृष्टीनां धुरि युज्यते, महामिथ्यादृष्टित्वात् । कथं तस्य मिथ्यादृष्टिता ? इत्याह- 'चढेइ अ' इत्यादि । चशब्दो
"
Jain Education International
For Private & Personal Use Only:
www.jainelibrary.org