________________
'गीयत्थ'ति । गीतार्थपारतन्त्र्याद्वक्रजडत्वेऽपि सति 'दृढ प्रतिज्ञया' व्रतपालनभावदार्येन 'एतस्य' चारित्रस्य नास्ति हानिः, संज्वलन मायालक्षणस्य वक्रत्वस्य ज्ञानावरणकर्मोदयजनितस्य जाड्यस्य च संयमाविरोधित्वात्, अनन्तानुबन्धिमायालक्षणस्य वक्रत्वस्य मिथ्यात्वोदयजनितस्य जाड्यस्य च गीतार्थपारतन्त्र्येणैव प्रतिघातात् । 'यत्' यस्मात् 'पूर्वाचार्यैः' हरिभद्रसूरिभिर्भणितमिदम् ॥ २५ ॥
एवंविहाण वि इहं, चरणं दिट्ठ तिलोगनाहेहिं । जोगाण सुहो भावो, जम्हा एएसि सुद्धो उ ॥ २६ ॥
'एवंविहाण वि'त्ति। ' एवं विधानामपि' वक्रजडानामपि 'इह' भरतक्षेत्रे 'चरणं' चारित्रं दृष्टं त्रिलोकनाथैः, यस्मादेतेषां 'योगानां' प्रतिज्ञातक्रियाव्यापाराणां शुद्धो भावः स्थिरः, स्थिरतैव चारित्राङ्गमिति ॥ २६ ॥
अथिरो अ होइ भावो, सहकारिवसेण ण पुण तं हणइ । जलणा जायइ उपहं, वज्जं ण उचयइ तत्तं पि २७
'अथिरो अ'ति । अस्थिरश्च भावो भवति कदाचित् सहकारिणां संज्वलनमायाजाड्यादिलक्षणानां निमित्तानां वशेन, न पुनः 'तं' योगस्थिरतालक्षणं चारित्रं हन्ति । दृष्टान्तमाह —- 'ज्वलनात्' अग्नेर्जायते उष्णं वज्रं न तु त्यजति 'तत्त्व' वज्रत्वमपि तद्वच्चारित्रमपि तथाविधसहकारिवशाद्विकारित्वलक्षणम स्थैर्यमुपाददानमपि दृढप्रतिज्ञत्वलक्षणं स्थैर्य न परित्यजतीत्यर्थः ॥ २७ ॥ यदप्युक्त मेकस्याप्यङ्गस्य भङ्गेऽष्टादशशीलाङ्गसहस्रलक्षणं चारित्रं नावतिष्ठत इति प्रमाद| बहुले काले कथं चारित्रसम्भवः ? इति तत्रोत्तरमाह -
Jain Education International
For Private & Personal Use Only
इदानीन्तनसाधूनां वजडत्वेऽपि गीतार्थपारतत्र्येण सरलाशयत्व
मेव ।
www.jainelibrary.org