________________
*OCTOCHROCCOLOROSCORRECRUSHES
इति ॥ १२० ॥ एवं च पार्श्वस्थेऽपि सानुतापादिशुद्धपरिणामे चारित्रसम्भवोऽस्तीति सिद्धम्, इदमेव प्रदेशान्तरसम्मत्या द्रढयतिजत्तो च्चिय पासत्थे, चारित्तं होइ भावभेएणं । वंदणयमणुण्णायं, इत्तो च्चिय भावकारणओ ॥२१॥
'जत्तो चिय'त्ति । यत एव पार्श्वस्थ भावभेदेन चारित्रं सावशेष भवति अत एव 'भावकारणतः' भावालम्बनात् | वन्दनक' कृतिकर्मानुज्ञातं कल्पभाष्ये॥ २१॥ तथाहिदसणनाणचरितं, तवविणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ॥ २२ ॥ _ 'दसण'त्ति । दर्शनं च-निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च-आचारादिश्रुतं चारित्रं च-मूलोत्तरगुणानुपालनात्मक दर्शनज्ञानचारित्रम्, द्वन्द्वैकवद्भावः। एवं तपश्च-अनशनादि विनयश्च-अभ्युत्थानादिस्तपोविनयम् । एतदर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे 'यावद्' यसरिमाणं स्वल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव 'भक्त्या' कृतिकर्मादिलक्षणया पूजयेदिति ॥ २२॥ ननु यद्येवमागमद्वारसूचितेन दर्शनादिभावकारणेनास्य वन्दनमनुज्ञातं तदोत्सर्गेणापि तदविरोधः, संयमश्रेणिस्थित एवोत्सर्गतो वन्दनप्रवृत्तेरित्यत आहउस्सग्गओ अ एयं,पडिसिद्धं गच्छमेरमहिगिच्च । इत्थं च णत्थि दोसो,सेढिठ्ठाणे विजं भयणा ॥२३॥ 'उस्सग्गओ'त्ति । उत्सर्गतश्च एतत्' पार्श्वस्थादिवन्दनं 'गच्छमेरां' गच्छव्यवहारमधिकृत्य प्रतिषिद्धम् , चारित्रवत्त्वे
RASAKOSOAIS SCHOOL
Jain Educa
For Private & Personal Use Only
elibrary.org