________________
संजमहेउं अजयत्तणं पिण हु दोसकारगं विंति । पायण वोच्छेयं वा समाहिकारों वणादीनं ॥ १६ ॥
'संजम हेउं 'ति प्रावचनिकादेः प्राणव्यपरोपणाद्युपद्रवरक्षणेन यः संयमस्तद्धेतोस्तन्निमित्तं पुलाकादेरयतत्वमपि 'नहि' नैव दोषकारकं ब्रुवते, यथा 'समाधिकारः' वैद्यो व्रणादीनां यत्तथाविधौषधप्रलेपनेन पाचनं यच्च शस्त्रादिना विच्छेदनं यद्वा व्यवच्छेदं लङ्घनं कारयति तत्तदानीं पीडाकरमपि परिणामसुन्दरमिति कृत्वा न दोषावहम्, एवमिदमपीति ॥ १६ ॥ अथ परस्याभिप्रायमाशङ्कमान आह
तत्थ भवे जइ एवं अपणं अपणेण रक्खए भिक्खू । अस्संजया वि एवं, अण्णं अण्णेण रक्खति ॥१७॥
‘तत्थ’त्ति । ‘तत्र' इत्यनन्तरोकेऽर्थेऽभिहिते सति भवेत् परस्याभिप्राय इति वाक्यशेषः, यद्येवं 'भिक्षुः' पुलाकादिः 'अन्यम्' आचार्यादिकं 'अन्येन' स्कन्धावारादिना कृत्वा 'रक्षति' एकस्य विनाशेनापरं पालयतीति भावः । तत एवं 'असंयताः' गृहस्था अप्यन्यमन्येन रक्षन्त्यवे, अतो न कश्चिदसंयतानां संयतानां च प्रतिविशेषः॥ १७ ॥ एवं परेणोक्ते सूरिराह -
न
संजमहेउं पालिति असंजता अजतभावे । अच्छित्तिसंजमट्टा, पालिंति जती जतिजणं तु ॥ १८ ॥ 'नहु ते'ति । 'नहि' नैव ते असंयता अयतभावव्यवस्थितान् गृहस्थान् संयमहेतोः पालयन्ति किन्तु स्वात्मनो जीविकादिनिमित्तम् । ये तु यतयस्ते या तीर्थस्याव्यवच्छित्तिर्यश्च तेषां रक्ष्यमाणानामात्मनश्चान्योन्योपकारद्वारेण संय मस्तदर्थे यतिजनं पालयन्ति । तुशब्दो विशेषणार्थः, एवं विशेषः साधूनां गृहस्थानां चेति ॥ १८ ॥ किञ्च -
Jain Education International
For Private & Personal Use Only:
www.jainelibrary.org