SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ न्तम्। रानिक आलोचनादौ कार्ये वन्द्यते अन्यदा तु न। आपन्नपरिहारिको न वन्द्यते,स पुनराचार्यान् वन्दते । संयत्योऽप्यत्सर्गतो न वन्द्यन्ते, अपवादतस्त्वपूर्वश्रुतस्कन्धधारिणी काचिन्महत्तरोद्देशसमुद्देशादिषु फेटावन्दनेन वन्द्यते । प्रो. कबद्धा जिनकल्पिकाः शुद्धपरिहारिणोऽप्रतिबद्धयथालन्दिकाश्च कृतिकर्मकार्ये सकुलादिकार्ये चानधिकारिण इत्यादिकाव्यवस्थासत्त्वाद् । 'बहिः' श्रेणेनिंगते तु न कर्तव्यं कृतिकर्म । तत्र 'मरुकस्य' ब्राह्मणस्य दृष्टान्तः॥११॥ तमेवाह मरुकदृष्टापक्कणकुले वसंतो,सउणीपारो वि गरहिओ होइ।इय गरहिआ सुविहिया,मज्झि वसंता कुसीलाणं ॥१२॥ 'पक्कण'त्ति । पक्कणकुलं-मातङ्गगृहं तत्र वसन् 'शकुनीपारगोऽपि' चतुर्दशविद्यास्थानपारदृश्वाऽपि द्विजो गर्हितो भवति । एवं सुविहिताः साधवः कुशीलानांमध्ये वसन्तो गर्हिता भवन्तीति, अतो न तेषु वस्तव्यं न वा कृतिकर्म विधेयम्। ॥ १२॥ ननु पार्श्वस्थानां कृतिकर्म न कर्तव्यमिति भवद्भिरभिहितम् । तत्र पावस्थादीनां लक्षणं क्वचिदग्रपिण्डभोजित्वादिस्वल्पदोषरूपं कचिच्च स्त्रीसेवादिमहादोषरूपमावश्यकादिशास्त्रेष्वभिधीयते तदत्र वयं तत्त्वं न जानीमहे कस्य कर्त्तव्यं कस्य वा न ? इत्याशङ्कायां विषयविभागमुपदर्शयतिसंकिन्नवराहपदे, अणाणुतावी य होइ अवरद्धे । उत्तरगुणपडिसेवी, आलंबणवजिओ वजो ॥१३॥13 अवन्दनीय पार्श्वस्थल'संकिन्न'त्ति । इह यो मूलगुणप्रतिसेवी स नियमादचारित्रीति कृत्वा स्फुटमेवावन्दनीय इति न तद्विचारणा । परं य उत्तरगुणविषयैर्बहुभिरपराधपदैः सङ्कीर्णः-शबलीकृतचारित्रः, अपरं च 'अपराधे' अशुद्धाहारग्रहणादावपराधे कृते 'अ ACTRESS Jain E t ernational For Private & Personal Use Only now.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy