________________
भिणित्ति । भणितं च कल्पभाष्ये पार्श्वस्थादीनां कृतिकर्मणोऽधिकारे श्रेणिवाह्यत्वम् , तथाहि-"सेढिहाणठियाणं, किइकम्म बाहिरण कायवं । पासत्थादी चउरो, तत्थ वि आणादिदोसाइ ॥१॥" इत्यत्र श्रेणिवाद्याः पार्श्वस्थादयश्चत्वार उक्ताः । तत्र पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दाः पञ्चाप्येको भेदः, काथिकप्राश्निकमामककृतक्रिय
संप्रसारका द्वितीयः, अन्यतीथिकास्तृतीयः, गृहस्थाश्चतुर्थ इति। एतत् खलु 'दुद्धरविरोधं दुःसमाधानानुपपत्तिकम्, यदि ४च्छेदान्तप्रायश्चित्ताधिकारित्वं पार्श्वस्थादीनां कथं श्रेणिबाह्यत्वं?, यदि च श्रेणिवाह्यत्वं कथं तदधिकारित्वम् ? इति ॥३॥
भन्नइ सेढीवज्झा, भणिया कप्पम्मि ते उ ववहारा। उववाइअंच तत्तं, विभज्ज सक्खं तहिं उवरिं॥४॥18 प्रतिवचनम्. | भन्नइत्ति । 'भण्यते' अत्रोत्तरं दीयते श्रेणिवाह्याः 'ते' पार्श्वस्थादयः 'कल्पे' कल्पभाष्ये 'व्यवहारात्' सम्भववाहुहै ल्यलक्षणादुक्का न तु सर्वेऽपि ते तादृशा एवेति उपपादितं च 'तत्त्वं' श्रेणिवाह्यत्वं 'विभज्य' पृथक्कृत्य साक्षाद्विशेष
प्रदर्शनपूर्व 'तत्र' कल्प एव 'उपरि' अव्यवहितोत्तरग्रन्थ एव ॥ ४॥ तथाहिलिंगेण णिग्गओ जो, पागडलिंग धरेइ जो समणो।किह होइ णिग्गउत्तिय, दिटुंतो सक्करकुडेहिं ॥५॥ + लिंगेण'त्ति । 'लिङ्गेन' रजोहरणादिना यो मुक्तः स संयमश्रेण्या निर्गतः प्रतीयते । यस्तु श्रमणः प्रकटमेव लिङ्गंधारयति स कथं 'निर्गतः' श्रेणिबाह्यो भवति? श्रमणलिङ्गस्योपलभ्यमानत्वान्न भवतीति भावः । अत्र सूरिराह-दृष्टान्तः शर्कराकुट. शर्कराकुटाभ्यामत्र क्रियते-"जहा कस्सइ रन्नो दो घडया सक्कराभरिआ, ते अन्नया मुइं दाऊण दोण्हं |
दृष्टान्तः
International
For Private & Personal use only
www.jainelibrary.org