________________
छेदप्रायश्चितं यावश्चरणानतिक्रम इति प्रकटनम्.
विरतत्वस्य तल्लक्षणत्वात् , तच्च नेष्यत इति न चारित्रिणोऽविरत्यभ्युपगमः श्रेयानित्यप्रशस्तसंयमस्थानेभ्य एव प्रायश्चित्तोसत्तिरिति स्थितम् ॥ ९९ ॥ अथ कियप्रायश्चित्तापत्तौ संयमः स्यान्न वा? इत्याह
अस्स जाव दाणं, तावयमेगं पि णो अइक्कमइ । एगं अइकमंतो, अइक्कमे पंच मूलेणं ॥ १० ॥ 'छेयस्सत्ति ' छेदस्य' छेदप्रायश्चित्तस्य यावदानं तावदेकमपि व्रतं नातिक्रमेत् । 'मूलेन' मूलप्रायश्चित्तेनैकं व्रतमतिक्रमंश्च पञ्चाप्यतिक्रमेत् । नन्वेवं मूलप्रायश्चित्तस्यैवाप्रशस्तसंयमस्थानादनुपपत्तेः कथमसंयमस्थानपदस्याप्रशस्तसंयमस्थानार्थत्वम् ? इति चेन्न, असंयमस्थानेभ्यःप्रायश्चित्तराशिरुत्पद्यत इत्यत्रासंयमस्थानपदस्य यथायोगं नानार्थत्वात् । अथवाऽसमाधिस्थानादीन्यपि स्वरूपतोऽसंयमस्थानान्येव संयमसामग्र्या बलवत्त्वाच्च ततो नासंयमोत्पत्तिरिति यथाश्रुतार्थ एव समीचीन इति नयभेदेन व्याख्यावैचित्र्ये न किञ्चिदूषणमुत्सश्यामः । अन्ये त्वाः-असंयमस्थानजनिता अतिचारादयोऽप्यविरतिरूपा एव, सूक्ष्मत्वाच्च न तेषामविरतित्वं विवक्ष्यते, अविरतसम्यग्दृष्टेरिवानन्तानुबन्धिक्षयोपशमजनितगुणानां विरतित्वमिति ॥ १०॥ छेददानं यावच्चारित्रमवतिष्ठत इत्यत्र पर आक्षिपतिनणु पासत्थाईणं, चारित्तं होइ एवमपडिहयं । पायच्छित्तं मूलं, भयणाए जेण तेसि पि ॥ १॥ | 'नणु'त्ति । नन्वेवं छेददानं यावद्वतानतिक्रमे पार्श्वस्थादीनां चारित्रमप्रतिहतं भवति, येन कारणेन तेषामपि पार्श्व-12 स्थादिविहारमुपसम्पद्य पुनर्गच्छमनुस कामानां मूलं प्रायश्चित्तं भजनया भणितम् ॥ १॥ तथा च व्यवहारगाथा
अत्र प्रेरक:
Pinternational
For Private & Personal use only
whinery