SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ खोपज्ञव त्तियुतः प्रथमो. ॥२ ॥ 'संजलणाणं'ति । 'संज्वलनानां' कषायाणामुपलक्षणाद्विद्यमानानांनोकषायादीनां चोदयाद् 'द्वादशानां पुनः अनन्ता-8 गुरुतत्व. नुवन्ध्यादीनां कषायाणां क्षयोपशमात् 'अपकृष्टाध्यवसाये' हीनाध्यवसाये सति 'शबलचारित्रस्य' अप्रशस्तसंयमस्य * विनिश्चयः निष्पत्तिः, मिलितयोरुक्तोदयक्षयोपशमयोस्तद्धेतुत्वात् । कर्मोदयेनौदयिका एव भावा रागादयो जन्यन्ते द्वादशानां कषायाणां क्षयोपशमेन च क्षायोपशमिकं चारित्रमिति नोभाभ्यामेककार्यजननम् , भावसङ्करप्रसङ्गात्, इति चेन्न, तथापि क्षीरनीरन्यायेन सङ्कीर्णभावानां कथञ्चिदभेदस्य सुवचत्वात्, अनैयव विवक्षया घृतं दहतीतिवत्पूर्वसंयमः स्वर्गहेतुरिति व्यवहारेण प्रतिपादनात् , तत्त्वतस्तु प्रशस्तरागस्यैव स्वर्गहेतुत्वात् , चारित्रस्य तु मोक्षहेतुत्वात् , मोक्षहेतोः संसारहेतुत्वा-2 योगादिति सूक्ष्ममीक्षणीयम् ॥ ९८॥ ननु संज्वलनोदयाच्चारित्रेऽप्यविरतिः स्यादेव, संज्वलनानां चारित्रमोहनीयत्वेनाविरतिजनकत्वात्। न च तत्सत्त्वे संयमाभावप्रसङ्गः, अविरतिसंयमयोरभिभाव्याभिभावकभावेन विरोधित्वात, क्षीरघटे निम्बरसलववदल्पत्वेनाविरतेः संयमाभिभवाक्षमत्वाद्, युक्तं चैतत् संज्वलनोदयजनिताविरतिवैचित्र्येणातिकमादिदो-भी षभेदोपपत्तेः, अन्यथा त्वेतद्भेदानुपपत्तिरित्यत आहकम्मोदयभेअकओ, पइठाणमइकमाइओ भेओ। देसजयत्तं हुजा, अविरइलेसे तु संतम्मि॥९९॥ 'कम्मोदय'त्ति । 'प्रतिस्थान' प्रतिप्राणातिपातनिवृत्त्यादिगुणव्यक्ति अतिक्रमादिकः, आदिना व्यतिक्रमातिचारानाचा-2 रपरिग्रहः, 'भेदः' विशेषः-अपकृष्टापकृष्टतरत्वादिलक्षणः 'कर्मोदयभेदकृतः' संज्वलनाद्युदयतारतम्याहितो नत्वविरतिता-M॥२८॥ रतम्यानुप्रवेशसंपादितस्तद्धेतोरिति न्यायात् । अविरतिलेशे तु सति चारित्रिणः 'देशयतित्वं' श्रावकत्वं स्यात्, विरता For Private Personal Use Only
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy