SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ डाविंशतिर्भेदाः, अथवा 'मोहे' मोहविषयाणि त्रिंशत् स्थानानि, एतेभ्योऽसंयमस्थानेभ्य एष प्रायश्चित्तराशिरुत्पद्यते ।। कियन्ति खलु तान्यसंयमस्थानानि ? उच्यते-"पलिओवम" इत्यादि । पल्योपमे सागरोपमे च यावन्ति वालाग्राणि तावन्ति न भवन्ति किन्नु व्यावहारिकपरमाणुमात्राणि यानि वालाग्राणां खण्डानि तेभ्योऽसङ्ख्येयानि । इयमत्र भावनायावन्ति खलु पस्योपमे वालाग्राणि तावन्त्यसंयमस्थानानि भवन्ति ? नायमर्थः समर्थः, यावन्ति सागरोपमे वालाग्राणि तावन्ति भवन्ति ? नायमर्थः समर्थः, यद्येवं तर्हि सागरोपमे यानि वालाग्राणि प्रत्येकमसङ्खयेयखण्डानि क्रियन्ते तानि च खण्डानि सांव्यवहारिकपरमाणुमात्राणि तावन्ति भवन्ति ? नायमप्यर्थः समर्थः, कियन्ति पुनस्तानि भवन्ति ? उच्यते तेभ्योऽप्यसञ्जयेयगुणानि । अन्ये तु ब्रुवते-परमाणुमात्राणि खण्डानि सूक्ष्मपरमाणुमात्राणि द्रष्टव्यानि, तदसम्यक्, सूवामपरमाणवो हि तत्रानन्ताः, असंयमस्थानानि चोत्कर्षतोऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानीति ॥ ९६ ॥ है तेहिँ विरोहो संजम-ठाणाणं तेण संजमो कत्तो । भन्नइ अपसत्थत्ता, असंजमो संजमो चेव ॥९७॥ । 'तेहिं' ति । 'तैः' असंयमस्थानविरोधः संयमस्थानानां तेन कुतः संयमः? 'भण्यते' अत्रोत्तरं दीयते, संयम एवाप्रशस्तत्वादसंयमः, अब्राह्मण इत्यादावप्रशस्तार्थेऽपि नञः प्रवृत्तिदर्शनात्, तथा चाप्रशस्तसंयमस्थानान्येवासंयमस्थाना- असंयमस्था 1नोत्पत्तिकानीति तत्कृतस्य प्रायश्चित्तराशेरुपपत्तिरितिभावः ॥ ९७ ॥ अप्रशस्तसंयमोत्पत्तिप्रकारमेवाहसंजलणाणं उदया, दुवालसण्हं पुणो खओवसमा।अबकिट्ठज्झवसाए, सवलचरित्तस्स णिप्फत्ती९८॥ रणम् For Private & Pearl Use Only www.ainetorary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy