SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः प्रथमो ॥ २७ ॥ पिंडस्स जा विसोही, समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहा विय, उत्तरगुण मो वियाणाहि ॥ ९४ ॥ 'पिंडस्स'त्ति । पिण्डस्य या 'विशोधिः' आधाकर्मादिदोषपरिहारलक्षणा, याश्च 'समितयः' ईर्यासमित्यादिकाः, याश्च भावना महाव्रतानां यच्च द्विभेदं तपः, याश्च प्रतिमा भिक्षूणां द्वादश, ये चाभिग्रहा द्रव्यादिभेदभिन्नाः, एतान् उत्तरगुणान् 'मो' इति पादपूरणे विजानीहि । एतेषां च सङ्ख्या - "बायाला अट्टेव उ, पणवीसा बार बारस य चेव । दवाइचउरभिग्गहभेआ खलु उत्तरगुणाणं ॥ १ ॥” इति गाथावसेयेति ॥ ९४ ॥ तदेवं कस्मिंश्चिन्मूलोत्तरगुणातिक्रमेऽपि यथोचितप्रायश्चित्तग्रहणाभिमुखपरिणामशुद्ध्या चारित्र व्यवस्थितिरिति सिद्धम् । अत्र कश्चिदाक्षिपतिनणु चरणस्साभंगं, पायच्छित्तस्स भावओ भणह । तमसंजमठाणकयं तेऽसंखिज्जा जओऽभिहियं ॥ 'नणु' इत्यादि । ननु 'चरणस्य' चारित्रस्याभङ्गं यूयं प्रायश्चित्तत्य भावतो भणथ, 'तत्' प्रायश्चित्तमसंयम स्थानकृतं, 'तानि' असंयम स्थानान्यसङ्ख्यातानि यतः 'अभिहितं' भणितं व्यवहारभाष्ये ॥ ९५ ॥ असमाहिट्टाणा खलु, सबला य परीसहा य मोहम्मि। पलिओवमसागरोवमपरिमाण तओ असंखिजा ॥ 'असमाहिट्ठाण'त्ति । यानि खल्वसमाधिस्थानानि विंशतिः, खलुशब्दः संभावने, स चैतत्संभावयति - असङ्ख्या तानि | देश कालपुरुष भेदतोऽसमाधिस्थानानि, एवमेकविंशतिः शत्रलानि, द्वाविंशतिः परीषहाः, तथा 'मोहे' मोहनीये कर्मणि Jain Education International For Private & Personal Use Only: गुरुतत्त्वविनिश्चयः लासः. उत्तरगुणाः असंयमस्था नप्रमाणम्. ॥ २७ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy