SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रवर्तते । उत्तराङ्गैस्तु कैश्चिद्विनापि शकटं कियत्कालं भारवहनक्षम भवति प्रवहति च मार्गे, कालेन पुनर्गच्छताऽन्यान्यपरिशटनादयोग्यमेतदुपजायते । एवमिहापि मूलगुणानामकस्मिन्नपि मूलगुणे हते न साधूनामष्टादशशीलाङ्गसहस्रभारवहनक्षमता, नापि संयमश्रेणिपथे प्रवहनम् । उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि भवति कियन्तं कालं चरणभारवहनक्षमता संयमश्रेणिपथे प्रवर्तनं च, कालेन पुनर्गच्छता तत्रान्यान्यगुणप्रतिसेवनातः समस्तचारित्रभ्रंशः। ततः शकटहष्टान्तादेतदुपपद्यते-मूलगुणानामेकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंश उत्तरगुणनाशे कालक्रमेणेति । इतश्चैतदेवं मण्डपसर्षपादिदृष्टान्तात् , तथाहि-एरण्डादिमण्डपे यधेको द्वौ बहवो वा सर्षपा उपलक्षणमेतत् तिलतण्डलादयो वा प्रक्षिप्यन्ते तथापि न स मण्डपो भङ्गमापद्यते, अतिप्रभूतैस्त्वाढकादिसङ्ख्याकैर्भज्यते । अथ तत्र महती शिला| प्रक्षिप्यते तदा तयैकयापि तत्क्षणादेव ध्वंसमुपयाति । एवं चारित्रमण्डपोऽप्येकद्विन्यादिभिरुत्तरगुणैरतिचर्यमाणैर्न | भङ्गमुपयाति, बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते । शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं भ्रंशमुपगच्छतीति । तदेवं यस्मान्मूलगुणातिचारेण क्षिप्रमुत्तरगुणातिचारेण च कालेन चारित्रभंशो भवति तस्मान्मे मूलगुणा उत्तरगुणाश्च निरतिचाराः स्युरिति षट्कायरक्षार्थ सम्यक् प्रयतितव्यम् । षट्कायरक्षणे हि मूलगुणा उत्तरगुणाश्च शुद्धा भवन्ति । तेषु च द्वयेष्वपि शुद्धेषु, अत्र गाथायामेकवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययोऽपि भव तीति, 'चरणशुद्धिः' चारित्रशुद्धिः॥९३ ॥ ननु मूलगुणास्तावत्प्राणातिपातादिनिवृत्त्यात्मकाः पञ्च ज्ञायन्त एव । उत्तरद्रगुणास्तु के ते? इत्यतं आह Jain Education International For Private & Personal use only inelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy