________________
गुरुतत्त्व
विनिश्चयः
स्वोपज्ञवृ- त्तियुतः प्रथमो२६ ॥
-
मूलगुण दइअसगडे, उत्तरगुण मंडवे सरिसवाई । छक्कायरक्खणट्टा, दोसु वि सुद्धे चरणसुद्धी ॥९३॥ | 'मूलगुणत्ति । मूलगुणे दृष्टान्तो दृतिः शकटं च, केवलमुत्तरगुणा अपि तत्र दर्शयितव्याः । उत्तरगुणेषु दृष्टान्तो म1ण्डपे सर्षपादिः, आदिशब्दाच्छिलादिपरिग्रहः, अत्रापि मूलगुणा अपि दर्शयितव्याः। इयमत्र भावना-एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते, उत्तरगुणप्रतिसेवनायां पुनः कालेन । दृष्टान्तो दृतिकः, तथाहि-यथा ह- तिक उदकभृतः पञ्चमहाद्वारस्तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुत्कलीभूते तत्क्षणादेव रिक्तीभवति, शुषिरेण तु कालेन । एवं महावतानामेकस्मिन्नपि महाव्रतेऽतिचर्यमाणे तत्क्षणादेव समस्त चारित्रभ्रंशो भवति, एकमूलगुणधाते सर्वमूलगुणानां घातात् , तथा च गुरवो व्याचक्षते-“एकवतभङ्गे सर्वव्रतभङ्गः" इति, एतन्निश्चयनयमतम् । व्यवहारे पुनरेकवतभङ्गे तदेवैकं भग्नं प्रतिपत्तव्यम् , शेषाणां तु भङ्गः क्रमेण यदि प्रायश्चित्तप्रतिपत्त्या नानुसंधत्त इति । अन्ये पुनराहुः-चतुर्थमहाव्रतप्रतिसेवनेन तत्कालमेव सकलचारित्रभ्रंशः, शेषेषु पुनर्महाव्रतेष्वभीक्ष्णप्रतिसेवनायां महत्यतिचरणे वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणबंशो यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्वालयति । एतदपि कुतोऽवसेयम् ? इति चेदुच्यते-शकटदृष्टान्तात् , तथाहि-शकटस्य मूलगुणा द्वे चक्रे उद्धी अक्षश्च, उत्तरगुणा वध्रकीलकलोहपट्टकादयः। एतैर्मूलगुणैरुत्तरगुणैश्च संप्रयुक्तं सत् शकटं यथा भारवहनक्षमं भवति तथा साधुरपि मूलगुणैरुत्तरगुणैश्च संप्रयुक्तः सन्नष्टादशशीलाङ्गसहस्रभारवहनक्षमो भवति, विशिष्टविशिष्टतरोत्तरसंयमाध्यवसायस्थानपथे च सुखं प्रवर्त्तते । अथ शकटस्य मूलाङ्गानामेकमपि मूलाङ्गं भग्नं भवति तदा न भारवहनक्षम नापि मार्गे|
मूलगुणोत्तरगुणप्रतिसेवनायां घरणभ्रंशे सो
दाहरणं न्यूनाधिकत्व प्रकटनम्.
-
-0-
-0-
॥२६॥
1
JainEducati
For Private & Personal use only
viww.jainelibrary.org