________________
वयभंगे गुरुदोसो, दुब्बारो जइ वि तह वि ववहारे । इहि पि ण पडिबंधो, विवक्ख भावेण पडिआरा७३॥ ‘वयभंगे’त्ति । यद्यपि व्रतभङ्गे गुरुर्दोषः, स च व्यवहारे दुर्वारः प्रमादबाहुल्यात् । तथापीदानीमपि न प्रतिबन्धः, 'विपक्षभावेन' प्रत्यतिचारं तन्निर्मूलनोपयोगपुरस्सरमुपस्थापितेन हा दुष्ठु कृतमिदं न कर्त्तव्यमिदमित्यादिलक्षणेन विपरीतपरिणामेन 'प्रतिकारात् ' अतिचारसमसङ्ख्यैः शुभभावैरतिचाराणां निवर्त्तनात्तन्निर्मूलनचिन्तयैव तत्त्वतो निःशूकतानिवृत्त्या तैरनिष्टस्यानुबन्दुमशक्यत्वात् ॥ ७३ ॥ एतदेव दृष्टान्तेन भावयति —
जह गुरुअसुहविवागं, विसं ण दुक्खावहं सपडिआरं । पावदुगंछासहियं, तह चरणं साइआरं पि ॥७४॥ 'जह'त्ति । यथा गुरुः- महान् अशुभः - अनिष्टो विपाकः - आयतिकालपरिणामो यस्य तत्तथा, विषं 'सप्रतिकारं' सोपचारं न दुःखावहम्, परिकर्मिताद्वत्सनागादेर्दुः खोत्पादाददर्शनात् प्रत्युत गुणस्यैवानुभवात् । तथा सातिचारमपि चरणं पापजुगुप्सासहितं न दुःखावहम्, सप्रतिकारत्वात्, महतोऽप्यतिचारस्य महता शुभभावेन निवर्त्तयितुं शक्यत्वात्, चारित्रस्य च स्वरूपतो मोक्षफलहेतुत्वादिति ॥ ७४ ॥ पापजुगुप्सायाश्चरणशोधकत्वमेव द्रढयति
इतु च्चिय पडिकमणं, पच्छाया वाइभावओ सुद्धं । भणिअं जिणप्पवयणे, इहरा तं दवओ दिहं ॥ ७५ ॥ 'इत्तु च्चिय'ति । 'अत एव' पापजुगुप्सायाश्चरणातिचारविशोधकत्वादेव जिनप्रवचने 'प्रतिक्रमणं' मिथ्यादुष्कृतदानादिलक्षणं 'पश्चात्तापादिभावतः' हा दुष्ठु कृतमेतदित्याद्यनुशय संवेगादिपरिणामतः शुद्धं भणितम् । अत एवात्यक्तप्रा
Jain Education International
For Private & Personal Use Only)
www.jainelibrary.org