________________
448
IA
एवं' इति । एवं' नित्यस्मृत्यादिप्रकारेणासन्नपि 'अयं' विरतिपरिणामो जायते, जातोऽपि न पतति कदाचिदयं परिणामः, 'तत् तस्मादत्र बुद्धिमता नित्यमप्रमादः कर्त्तव्यो भवति, गृहीतं व्रतं यथागममेकाग्रतयैव पालनीयमिति भावः ॥ ६८ ॥ नन्वलब्धनिश्चयस्यासंयतत्वादेव संयमक्रियादानं व्यर्थमन्यथाऽयोग्यप्रतिषेधानुपपत्तिप्रसङ्गादित्यत्राहमग्गप्पवेसणहूं, संजमकिरिया असंजयस्सावि । जुत्ता दाउं जम्हा, अब्भासो होइ एमेव ॥ ६९ ॥
मग्गत्ति । मार्गप्रवेशार्थ अलब्धमार्गलाभाय संयमक्रियाऽसंयतस्यापि दातुं युक्ता, यस्मादेवमेवाभ्यासलभ्यस्य , अलब्धनिकार्यस्य प्रागलाभ एवाभ्यासो भवति, लिखनगानपठनादिकौशललक्षणेऽभ्याससाध्ये कार्ये प्रागलब्ध एवापकृष्टनिरन्त- |श्चयस्य संरलिखनादिक्रियारूपाभ्यासप्रवृत्तिदर्शनाचारित्रेऽपीत्थमेवोपपत्तेः । सम्यग्दर्शनमपि खत्वसम्यग्दृष्टिना सताभ्यासेनैव
नियमक्रियादा
न वैयर्थ्यनिलभ्यते, नवतत्त्वादिपरिज्ञानानन्तरमेव भावसम्यक्त्वप्रतिपादनात् , तत्परिज्ञानदशायां तदभावादन्यथा तद्वैयर्थ्यात् ,
राकरणम्. एवमचारित्रिणापि यद्यभ्यासेन चारित्रं लभ्यते तदा को दोषः इति विचारणीयम् । नन्वेवं क्रियाकौशलमेव चारित्रं प्राप्तं तच्च मरुदेवादावव्यापकमिति चेन्न, प्रतिपुरुषं संयमाध्यवसायैक्याभावादित्यन्यत्र विस्तरः । अयोग्यत्वं च नासंयतत्वमात्रेण, सर्वस्यापि दीक्षादानालागयोग्यत्वप्रसङ्गात् । किन्तु कृतज्ञत्वदृढप्रतिज्ञत्वादिगुणाभाववत्त्वेन, तच्च न प्रतिज्ञातक्रियाकुशल इति न किश्चिदनुपपन्नम् ॥ ६९ ॥ विपर्यये दोषमाहइहरा तुसिणीयत्तं, हविज परभावपञ्चयाभावा । जिद्वत्ताइ वि तम्हा, ववहारेणेव जं भणियं ॥७०॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org