SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तियुतः प्रथमो ॥ २१ ॥ 'त लाभम्मिवि'ति । 'तदलाभेऽपि' निश्चयालाभेऽपि गृहीते सूत्रोक्तव्यवहारे 'नित्यं' निरन्तरं 'स्मृत्या' प्रतिज्ञातक्रियामध्ये किं कृतं किं कर्त्तव्यमवशिष्यते किं शक्यं न समाचरामीत्यादिलक्षणया 'अधिकृतगुणे' प्रकृतचारित्रगुणवत्यधिकगुणे वा 'बहुमानात् ' आराध्यत्वज्ञानलक्षणात्, तथा पापस्य - प्राणातिपातविरमणादिप्रतिपक्षस्य प्राणातिपातादेर्जुगुप्साआत्मसाक्षिकी निन्दा, यादृशभावेन पापमासेवितं तदधिकभावेन हेयत्वबुद्धिरिति यावत्, आलोचनं स्वकृतस्य पापस्य निश्शल्यतया गुरुसमक्षं प्रकटनम्, जिनभक्तिः - क्रियाकरणकालीनावश्यकाज्ञाप्रणिधानोपस्थिते तद्दातरि भगवत्यहो ! परमसूक्ष्मो जगज्जन्तुहितावहो भगवता धर्मः प्रतिपादित इत्येवंविधादरलक्षणा, विशेषश्रद्धा चोत्तरगुणातिशयोपादित्सा ताभिर्हेतुभूताभिः ॥ ६६ ॥ लब्भइ णिच्छयधम्मो, अकुसलकम्मोदएण नो पडइ । ता अपमाओ जुत्तो, एयम्मि भांति जं धीरा ॥ 'लब्भइ'त्ति । 'लभ्यते' प्राप्यते 'निश्चयधर्मः' संयमस्थानलक्षणः, क्रियाविशिष्टानामुक्त भावानामुक्त भावविशिष्टक्रियाया वाहत्यभावातिरिक्तस्थले निश्चयधर्महेतुत्वात् । 'अकुशल कर्मोदयेन' अनिका चितचारित्र मोहलक्षणपापकर्मोदयेन 'नो पतति' न चारित्राद् भ्रश्यति, अकुशल कर्मोदयस्यापि नित्यस्मृत्यादिनिवर्त्तनीयत्वात्, 'तत्' तस्मात् 'एतस्मिन्' व्यवहारे 'अप्रमादः' प्रमादविरहो युक्तः, यद्भणन्ति 'धीराः' श्रीहरिभद्रसूरयः ॥ ६७ ॥ | एवमसंतो वि इमो, जायइ जाओ विण पडड़ कयावि । ता इत्थं बुद्धिमया, अपमाओ होइ कायवो ॥ For Private & Personal Use Only Jain Education International गुरुतत्त्वविनिश्चयः लासः. ॥ २१ ॥ www.jainelibrary.org
SR No.600159
Book TitleGurutattva Vinischaya
Original Sutra AuthorN/A
AuthorYashovijay Gani, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1925
Total Pages540
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy